________________
चतुर्थः काण्ड
, ..
.
(३६१)
अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । ... अग्रजन्माऽग्रजे विप्रेऽन्तेबासो पुनरन्त्यजे ॥१५८॥ शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे । . . आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥१५९॥ आच्छादनं तु वसने सम्पिधानेऽपवारणे । .
आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ।।१६०॥ विभवम् । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ अनूवाच अनूचान: "वेयिवदनेति (५-२-३) साधुः।" विनयान्विते वाच्यलिङ्गः । द्वयोर्यथा-इदमूचुरनूचानाः प्रीतिकंटकितत्त्वचः ॥१५७॥ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अन्वास्यते अन्वासनं । स्नेहवस्तिः स्नेहोपकरणम् । अग्रजन्माऽग्रजे विप्रे । अग्रे जन्म अस्य अग्रजन्मा पुंसि । अग्रजे यथा-अग्रजन्मा यदा तिष्ठेत्तदा-दध्यानुजः कथम् । विप्रे यथा-द्रष्टुमाह वनमग्रजन्मनां । अन्तेवासी पुनरन्त्यजे शिष्यप्रान्तगयश्चिापि । अन्ते वसत्यन्तेवासी ॥१५८॥ शयवासीत्यलुप् (३-२-२०) प्रान्तगे वाच्यलिङ्गः शिष्ये यथा-रुतानिशण्वन् वयसांगणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् । आयोधनं समरे वधे । आयुध्यन्तेऽस्मिन्नित्यायोधनं । समरे यथा-आयोधने कृष्णगति सहायमवाप्य यः क्षत्रियकालरात्रि । वधे यथा-शस्त्रायोधनविधुरो रणभुवि वीरोपि मुह्यति प्रायः । आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च । आराध्यते आराधनं । साधने यथा-न्यस्याङ्गानि ततः कुर्याद्विदयाराधनमुत्तमम् । तोषणे यथा-शंकराराधनं धनं ॥१५९॥ आच्छादनं तु वसने सम्पिधानेऽपवारणे । आच्छाद्यतेऽनेन आच्छादनं । वसने यथा-भोजनाच्छादने सद्भिरुभेकसिपु कथ्यते । सम्पिधानाऽपवारणयोर्यथा-आच्छादनमकार्यस्य कार्यमार्यैः । प्रयत्नतः। आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च । आकल्यते आकलनं बन्धने यथा-सेव्याऽपि सानुनयमाकलनाय यन्त्रा। शेषयो यथा-जलधिजला