________________
(३६०) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ ॥१५५॥ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्त खण्डने शुद्धकर्मणि ॥१५॥ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः।
अनूचानः साङ्गवेदकोविदे विनयान्विते ॥१५७॥ यथा-सोपाचीनानि पश्यति । अपाक् पश्चादित्यस्यार्थोऽपागर्थः । तत्र यथाअपाचीनं चीनांशुकयुगलसंवीतवपुषा । अभिजनः कुले कुलध्वजे जन्मभूम्यां । अभिजायते अभिजनः । कुले यथा-तां पार्वतीत्यभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव । कुलध्वजे यथा-वैदर्भिदर्भदलपूजनयाऽपि यस्य गर्भे जनः पुनरुदेति न जातु मातुः । तस्यार्चनां रचय तत्र मृगांकमौलेस्तन्मात्रदैवतजनाऽभिजनः संदेशः । जन्मभूमौ यथा-यः कन्यकुब्जाभिजनः स राजा। अभिमानस्त्वहंकृतौ। हिंसायां प्रणये ज्ञाने । अभिमाननमभिमानः । अहंकृतौ यथा-अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ॥१५५॥ हिंसायां यथा-यः शत्रुष्वभिमानवान् स जयति स्फोतं महीमण्डलम् । प्रेमपूर्वको वशीकारः प्रणयस्तत्र यथा-प्रियाभिमानेन विना न तन्वी चित्तस्य कोपाकुलतां जहाति । ज्ञाने यथा-तत्त्वाभिमानेन विना न मोक्षः। अवलग्नो मध्यलग्नयोः। अवलगति स्म अवलानः। "क्षुब्धविरब्धेति साधुः।" मध्ये पुंक्लीबः। तत्र यथा-कृशावलग्नां सुदी ससर्ज । लग्ने वाच्यलिङ्गः । तत्र यथा-क्षिप्तो हस्ताक्लानः प्रसभमभिहतो व्याददानोऽशुकान्तम् । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि । अवदीयते अवदायते वाऽनेनाऽवदानं । त्रिवपि यथाविश्वावसुप्राग्रहरैः सदेवैः संगीयमानत्रिपुरावदानः ॥१५६॥ अधिष्ठान प्रभावेऽध्यासने नगरचक्रयोः। अधिष्ठीयते अधिष्ठानं । चक्र रथाङ्गं । तत्र प्रभावे च यथा-उच्चैस्तेरुस्तूर्णमलापगायाः। साधिष्ठानास्ते किमाश्चर्यमत्र ॥ नगराध्यासनयोर्यथा- अधिष्ठानं राज्ञो जगति जयति प्राप्त