________________
चतुर्थः काण्डः
इक्षुगन्धा काशक्रोष्ट्री कोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्यो छिकि कौषधौ ॥ १५१ ॥ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके | तमाले जीवकद्रौ च तीक्ष्णगन्धावचौषधे ॥ १५२ ॥ शोभाजने राजिकायां परिव्याधो द्रुमोत्पले । वेतसे महौषधं तु विषाशुण्ठ्यो रसोनके ॥ १५३ ॥ ब्रह्मबन्धुर्निन्दद्यविमे, बान्धवे ब्राह्मणस्य च । समुन्नद्धस्तूर्द्ध बद्धे पण्डितम्मन्यदृप्तयोः ॥ १५४॥
(३५९)
क्षेषु गोक्षुरे । इक्षोरिव गन्धोऽस्या इक्षुगन्धा । क्रोष्ट्री शृगाली । शेषा ओषधिभेदाः । उग्रगन्धा वचाक्षेत्रयवान्योरिछकिकौषधौ । उम्रो गन्धोऽस्या उग्रगन्धा । सर्वा ओषधयः || १५३ || उपलब्धिर्मतौ प्राप्तौ । उपलम्भनमुपलब्धिः श्चादित्त्वात् । स्त्रियां क्तिः । ( ५- ३ - ९२) मतिर्ज्ञानं । द्वयोर्यथा - सम्यक् पुत्रि विमृश्य पूर्वपरयोरथपलब्धौ पदं कर्त्तव्यं सुभगे यतोऽर्थरुचिता धर्मेयमस्मद्गृहे । कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च । कालः स्कन्धोऽस्य कालस्कन्धः । orang: श्यामखदिरः । तीक्ष्णगन्धा वचौषधे । शोभाञ्जने राजिकायां । तीक्ष्णो गन्धोऽस्याः तीक्ष्णगन्धा || १५२ || शोभाञ्जनः शित्रुः । राजिका राजसर्षपः । परिव्याधो द्रुमोत्पले । वेतसे । परिविध्यति परिव्याधः । “तन् व्यधीणिति णः" (५-१-६४ ) द्मोत्पः कर्णिकारः । महौषधं तु विषाशुण्ठ्यो रसोनके । महदौषधं महौषधं । “जातीयैकार्थे वेरिति डा : " ( ३-२-७० ) || १५३ || ब्रह्मबन्धुर्निन्द्यविप्रे बान्धवे ब्राह्मणस्य च । ब्रह्मा बन्धुरस्य ब्रह्मबन्धुः । द्वयोर्यथा - ब्रह्मबन्धुरयमागतोऽतिथिः । समुन्नद्धस्तूर्द्धवं बद्धे पण्डितम्मन्यदृप्तयोः । समुन्नह्यते समुन्नद्धः । वाच्यलिङ्गः ॥ १५४ ॥ अथ नान्ताः । अपाचीनं विपर्यस्तेऽपागर्थे । अपागेव अपाचीनं । "अदिक् स्त्रियां वाच इतीनः । ( ७-१-१०७) विपर्यस्ते वाच्यलिङ्गः । तत्र
1