________________
(३५८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
दोषोत्पादेऽनुबन्धी तु हिकायां तृष्यति काचित् । अवरोधस्तु शुद्धान्ते निरोधाने नृपौकसि ॥१४८॥ अवष्टब्धमविदुरे समाक्रान्तेऽवलम्बिते । अनिरुद्धश्चरे पुष्पचापसूनावनर्गले ॥१९॥ आशाबन्धः समाश्वासे मर्कटस्य च वासके ।
इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके ॥१५०॥ वाच्यलिङ्गः मर्यादया सहिते यथा-आर्याः समर्यादमुदाहरन्तु ॥ अथ धान्ताः । अनुबन्धोऽप्रयोगिणि मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । दोषोत्पादे अनुबध्यते इति अनुबन्धः ॥ अप्रयोगिणि यथा-तिवाशवानुबन्धेन । प्रकृतस्यानुवर्तने यथा-सानुबन्धाः कथं न स्युः सम्पदो मे निगपदः (मयः) ॥१४७॥ दोषोत्पादे यथा-महतां नास्ति कदाचनानुबन्धः । मुख्यानुयायो प्रधानानुगामी। अनुबन्धी तु हिक्कायां तृष्यति क्वचित् । गौरादित्वाङ्गीः अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि । अवरुध्यते अवरोधः। शुद्धान्तनृपौकसोर्यथा-यावच्चलासनविलोलनितम्बबिम्बविनस्तवस्त्रमवरोधवधुः पपात ॥१४८॥ अवष्टब्धमविदुरे समाक्रान्तेऽवधम्बिते । अवष्टभ्यते स्म अवष्टब्धम् । अवाच्चायोर्जा विदूरे २-३-४२ इति षत्वं । वाच्यलिङ्गः । त्रिष्वपि यथा-अवष्टब्धक्लेशैः शमसुखविमूढः शठमतिः । अनिरुद्धश्चरे पुष्पचाप बनावनर्गले ।न निरुद्धयते अनिरुद्धः । अनर्गले वाच्यलिङ्गः । पुष्पचापसूनो (पुष्पचापस्तनौ) यथा-अनिरुद्धसमद्यतिः ॥३४९॥ आशाषन्धः समाश्वासे मर्कटस्य च वासके (जालके) । आशाया बन्धः आशाबन्धः । समाश्वासे यथा-आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् । मर्कटवासको लूतापुटम् । इष्टगन्धः सुगन्धिः स्यात् । इष्टो गन्धोऽस्य इष्टगन्धः । वाध्यलिङ्गः। इष्टगन्धन्तु चालुके । वालकं भेषजभेदः ॥१५०॥ इक्षुगन्धा काशक्रोष्ट्री कोकिला