________________
चतुर्य काण्डः अष्टापदश्चन्द्रमल्ल्यां, लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्धयुद्धयोः ॥१३६॥ स्यादभिस्यन्द आस्रवनेत्ररोगातिवृद्धिषु । अववादम्तु निदेशे निन्दाविश्रम्भयोरपि ॥१३७।। उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । एकपदं तदात्वे स्यादेक पदी तु वर्त्मनि ॥१३८॥ कटुकन्दः शृङ्गबेरे शोभांजनरसोनयोः ।
कुरुविन्दः पद्मरागे मुकुरबीहिभेदयोः ॥१३९ ॥ अष्टसु लोहेषु पदं प्रतिष्ठाऽस्येति वा अष्टापदः । नाम्नीति दीर्घः । कनके शारिफलके च पुंक्लीबः । शेषेषु पुंसि । चन्द्रमल्ली वनस्पतिभेदः लूता ऊर्णनाभः । गिरौ यथा-अष्टापदान्दोलनस्वर्गाधीशसहस्त्रबाहुविजयप्रायाणि सत्यापय । कनके यथा-आवर्जिताष्टापदकुम्भतोयैः । शारिफलके यथाअन्धकारितललाटाष्टापदम् । अभिमद्दों मंथयुद्धयोः। अभिमदनमभिमईः । मन्ये यथा-तीवाभिमईपरिहारनिविष्ट बुद्धेः । युद्धे यथा-युक्तं न माईवमरावभिमभाजि ॥१३६॥ स्यादभिस्यन्द आस्रवनेत्ररोगातिवृद्धिषु । अभिस्यन्दनमभिस्यन्दः । मानवे यथा-केनाभिस्यन्दतोहयैः । अववादस्तु, निर्देशे निन्दाविश्रम्भयोरपि ॥ अववदनमववादः । निदेश आज्ञा तत्र यथा-मधुकरैरवबादकवि । निन्दायां यथा-दृष्टोऽयमववादस्ते । विश्रम्भो विश्वासः ॥१३७॥ उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । उपसमीपे ब्रह्मणो निषीदन्त्यनयेति उपनिषत् । त्रिष्वपि यथा-यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य । एकपदं तदात्वे स्यात्। एकं पदमेकपदम् । तदात्वन्तत्कालः । एकपदी तु वर्मनि । एकः पादोऽस्या एकपदी । कुम्भपद्यादित्वात्साधुः ॥१३८॥ कटुकन्दः शृङ्गवेरे शोभांजनरसोनयोः । कटुः कन्दः कटुकन्दः । शृङ्गबेरमादकम् । शोभांजनः शिग्रुः । रसोनो लशुनम् । कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः कुल्माषे हिन्मुले मुस्ते । कुरुं विन्दति कुरुविन्दः। निगवा