________________
___(३५६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
कुरुमाषे हिङ्गुले मुस्ते कोकनदन्तु रक्तयोः । अम्भोजन्मकुमुदयोश्चतुपदो गवादिषु ॥१४०॥ स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे ॥ स्यन्दने च जनपदः स्यात्पुनर्जेनदेशयोः ॥१४१॥ परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥ प्रियम्बदः प्रियवादिनभश्चरविशेषयोः ॥१४२॥ पीठमद्दोऽतिवियाते नाट्योक्त्या नायकप्रिये ॥ पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ॥१४३॥ महानादो वर्षकाब्दे महाध्वाने शयानके ॥
गजे च मुचुकुन्दस्तु दुभेदे मुनिदैत्ययोः ॥१४॥ देर्नाम्नोति शः। पद्मरागहिंगुलयोर्यथा-सावित्राः कुरुविन्दः कन्दलरुचः प्राचोमलं कुर्वते मुकुरो दर्पणः ॥१३९॥ कोकनदन्तु रक्तयोः। अम्भोजन्मकुमुदयोः। कोकैश्चक्रवाकैर्नदति कोकनदं। द्वयोर्यथा-फुल्लकोकनदकान्तितस्करी । चतुष्पदो गवादिषु । स्त्रीणां करणभेदे च । चत्वारि पदानि यस्य स चतुष्पदः । गवादिषु यथा-द्विपदचतुष्पदभागी ।१४०॥ करणभेदो वात्स्यायनप्रसिद्धः॥ रक्तपादो मतगजे स्यन्दने च । रक्तः पादा अस्य रक्तपादः । स्यन्दनो रथः जनपदः स्यात्पुनर्जनदेशयोः ॥ जनैः पद्यते जनपदः ॥ पदणिगत वित्यस्याल । जनानां पदमिति वा । प्रतिपदपाठात्पुस्त्वं । द्वयोर्यथा-प्रीतिस्निग्धैजनपदः वध्लोचनैः पीयमानः ॥१४१॥ परिवाद स्तु निन्दायां वीणावादनवस्तुनि । परिवदनं पर्युद्यतेऽनेन वा परिवादः । निन्दायां यथाप्रसरति परिवादः सर्वतोऽयं न यावत् । वीणावादनवस्तुनि यथा-कल तया वचसः परिवादिनी स्वरजितारजितावशमाययुः ॥ अत्र हि परिवादोऽस्या अस्तीति परिवादिनी । प्रियम्बदः प्रियवादिनभश्वरविशेषयोः। प्रियम्वदतीति प्रियंवद इति खः। प्रियवादिनि वाच्यलिङ्गः ॥ तत्र यथा-प्रियम्वदः प्रत्यवदत्सुरेश्वरम् । नभश्चरविशेषे यथा-अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥१४२॥ पीठमर्दोऽतिवियाते नायोक्त्या नायकप्रिये ।