SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ (३५४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः हैमवत्यदिना' स्वर्णक्षीरी शुक्लवचाऽभया । अनीकस्थो रक्षिवर्ग, युत्खले वीरमर्दले ॥१३२॥ चिहने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धये नष्टधर्मेऽप्युदरथिवियन्मणौ ॥१३॥ अब्धौ चित्ररथो विद्याधरे गन्धर्वपर्ययोः । चतुष्पथश्चतुर्मार्ग-सङ्गमे ब्राह्मणेऽपि च ॥१३४॥ दशमीस्थः स्थविरे स्यात, क्षीणरागे मृताशने । वानप्रस्थो मधूकद्रौ, किंशुकाश्रमभेदयोः ॥१३५॥ स्थाण्वाश्रमं हैमवतं जगाम । अथ थान्ताः । अनोकस्थो रक्षिवर्गे युत्खले वीरमर्दले । चिहने गजशिक्षके च। अनीके तिष्ठति अनीकं तिष्ठत्योति वा अनीकस्थः । रक्षिवर्गगजशिक्षकयोर्यथा-अनीकस्थैः स्वस्थैः स्थितिरिहकथं शत्रुनिकरे। युधः खलंः रणभूमिः ॥१३२॥ इतिकथा व्यर्थभाषणे अश्रद्धेये नष्टधम्र्मेऽपि । इति कथा इतिकथा अव्ययं प्रवृद्धादिभिरितिसमासः। उदरथिर्वियन्मणौ। अब्धौ । उदू मियति उदरथिः । उदर्तेणिवेत्यथिः । पुंसि । वियन्मणिरादित्यः ॥१३३॥ चित्ररथो विद्याधरे गन्धर्वपर्ययोः । चित्रोरथोऽस्य चित्ररथः । चतुष्पथश्चतुर्मार्गसङ्गमे ब्राह्मणेऽपि च । चत्वारः पन्थानोऽत्र चतुष्पथः । चतुर्णा पथां समाहारश्चतुष्पथः चतुष्पथमिति क्लीबेऽपि । चतुर्गिसंगमे यथा-किं यातोऽसि चतुष्पथे ॥१३४॥दशमीस्थः स्थविरे स्यात् क्षीणरागे मृताशने ॥ दशम्यां अवस्थामां तिष्ठति दशमीस्थः । वाच्यलिङ्गः । स्थविरक्षीणरागयोर्यथा-चकिणो दशमीस्थस्य रोगिणो भारिणस्त्रियः । स्नातकस्य च राज्ञश्च पंथा देयोवरस्य च ॥ मृतस्य हस्तेनाशनं यस्य स मृताशनः । वानप्रस्थो मधुकद्रौ किंशुकाश्रमभेदयोः। प्रतिष्ठन्तेऽत्र प्रस्थः । वनस्य प्रस्थे भवो वानप्रस्थः । आश्रमभेदे यथा-वानप्रस्थमुनिस्थलीषु विद्वतं बद्धोटनासु (बद्धो जटासु) त्वया ॥१३५॥ अथदान्ताः ॥ अष्टापदश्चन्द्रमाल्ल्यां लूतायां शरभे गिरौ। कनके शारिफलके । अष्टौ पदान्यस्य १ सेनापतिगुहेऽध्यक्षे हिमारातिः खगेऽनले । हैम. ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy