________________
चतुर्थः काण्डः समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः। अविनी ते समुद्गीणे समुद्रान्ता दुरालभा ॥१२९॥ कार्यासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥१३०॥ वाच्यायागायां स्त्रीरत्ने, गोवाग्देवतयोरपि ।
सूर्यभक्तो बन्धुजीवे, भास्करस्य च पूजके ॥१३१॥ यो द्वारोऽत्रात समाघातनम्वा समाघातः ॥१२८॥ समाहितः समाधिस्थे संश्रुते । समादधाति समाधियते वा समाहितः। वाच्यलिङ्गः । समाधिस्थे यथासमाहितैरप्यनुरूपितस्ततः पदं दृशः स्याः कथमोश मादृशाम् । संश्रुतः प्रतिज्ञातः । दत्तोत्तरेऽपि यथा-समाहितो मन्मथपूर्वपक्षः। अथ समुद्धतः। अविनीते समुद्गीर्ण । समुद्धन्यते स्म समुद्धतः । वालिङ्गः। अविनीते यथा-सहजचापलदोष समुद्धतः। समुद्गीण समुदीरितम् । समुद्रान्ता दुरालभा। कार्पासिका स्पृक्का च। समुद्रोऽन्तो यस्याः सा समुद्रान्ता । स्पृक्कादुरालभे ओषधे ॥१२९॥ कार्पासिका वमनी । भूमावपि यथा-समुद्रान्तां स्थिरां शुद्धाम् । सदागतिः सदीश्वरे । निर्वाणे पवमाने च । सदागतिर्यस्य स सदागतिः। पवमाने यथामहिषक्षता गरुतमालनदलसुरभिः सदागतिः । सरस्वती सरिद्भिदि । वाच्यापगायां स्त्रोरत्ने गोवाग्देवतयोरपि । सरः प्रसरणमस्त्यस्याः । सरस्वती । सरिद्भिदि यथा-नदोमिवाऽन्तः सलिलां सरस्वतीम् ॥१३०॥ वाचि यथा-रतिमाकाशभवा सरस्वती । आपगा मात्रे यथा-कूलंकषा शैवलिनी सरस्वती । वाग्देवतायां यथा-वाचालासि सरस्वती बज गृहान् कः सूक्तिगोष्ठीक्रमः । सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके। सूर्यस्य भक्तः सूर्यभक्तः । बंधुजीवो बंधुकः । भास्करपूजके वाच्यलिङ्गः ॥१३॥ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभया । हिमवतः इयं हैमवती । अद्रिजा गौरी गंगा च तयोर्यथा-चुकोप सा हैमवतीति नाम्ना । स्वर्णक्षीरी अभया शुक्लवचा चौषधयः । हिमवति जातादावपि तत्र तु वायलिङ्गः । यथा