________________
(३५२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
भोगवती तु सर्पाणां नगरेऽपि सरित्यपि । रङ्गमाता जतुचन्धोर्लक्ष्मीपतिर्जनार्दने ॥१२५॥ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ।। योगभेदेऽपयाने च, वनस्पतिद्रुमात्रके ॥१२६॥ विनापुष्पफलिद्रौ च विनिपातस्तु देवतः । व्यसने चावपाते च वैजयन्तो गुहे ध्वजे ॥१२७॥ इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ।
जर्तुयन्त्यां च समाघातस्त्वाहवे घातनेऽपि च ॥१२८॥ भोगवती तु सर्पाणां नगरेऽपि सरित्यपि (सरिदन्तरे)। भोगः सन्त्यस्यां भोगवती । बाहुलकाद् दीर्घत्वाभावः । द्वयोर्यथा-भोगवत्यपि वसुन्धराश्रिता । रङ्गमाता जतुच(चु)न्योः । रङ्गस्य माता रङ्गमाता । चन्दी कुट्टनी । लक्ष्मीपतिर्जनार्दने । पूगे लवङ्गवृक्षे च । लक्ष्म्याः पतिः लक्ष्मीपतिः । जनार्दने यथा-लक्ष्मीपतेश्चरितकीर्तनमात्रचारु ॥१२५।। पूगः क्रमुकः । व्यतीपात उपद्रवे । योगभेदेऽपयाने च । व्यतिपतनं व्यतिपतन्त्यस्मिन् कार्याणि वा व्यतीपातः । घञ्युपसर्गस्येति दोघः। योगभेदे यथा-दिनमेकं परिहार्यः परिघश्च तथा व्यतीपातः । अपयानं पलायनम् । वनस्पतिमात्रके विना पुष्पफलिद्रौ च । वनस्य पतिर्वनस्पतिः। वर्चस्कादित्वात्साधुः । द्रुमात्रे यथा-क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ॥१२६॥ पुष्पं विना फलवति द्रुमे यथा-फली वनस्पति यः । विनिपातस्तु दैवतः । व्यसने चावपाते च । विनिपतनं विनिपातः। दैवाघद् व्यसनं तत्र यथा-विनिपातोऽपि समः समुन्नतेः। पतनमात्रमवपातः । वैजयन्तो गुहे ध्वजे । इन्द्रालये। वैजयन्ती मनास्ति वैजयन्तः । अभ्रादित्वादः ॥१२७॥ वैजयन्ती त्वग्निमन्थपताकयोः । जयन्न्यां च । विजयन्ते विजयन्तः । क जि भू इत्यन्तः । तस्येयं वैजयन्ती । पताकायां यथा-इत्यस्यतेऽनेकदलीमधुश्रीः प्रभावनीकेतनवैजयन्तीः। अग्निमन्थोsरणिः । जयन्ती ओषधिः । समाघातस्त्वाहवे घातनेऽपि च । समा हन्यन्ते