________________
तृतीयः काण्डः
--
अस्त्रे चाथ पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्ल्यां पशुपत्यधिदेवते ॥ १२१ ॥ पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारापतः कलरवे गिरौ मर्कटतिण्डुके ॥ १२२ ॥ पारावती तु लवलीफलगोपाळगीतयोः । पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ॥ १२३॥ पुष्पदन्तौ च चन्द्रार्कावेोक्त्याथ पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च ॥ १२४ ॥ दैवते । पशुपतिर्देवताऽस्य पाशुपतः । घनादेः पत्युरित्यण ( ६-१-१४ ) । शिवमल्ली वकपुष्पम् । पशुपतिरधिदैवतं यस्य स तथा । तत्र वाच्यलिङ्गः । यथाइलाध्यं पाशुपतं व्रतम् ॥१२१ || पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारिणः पारावतोऽब्धेर्जातः पारिजातः । मन्दारोऽर्कभेदः । पारिभद्रो निम्बः । सुरद्रुमे यथा- पारिजातपल्लवेभ्यो रागमिति । पारापतः कलरवे गिरौ मर्कटतिण्डुके । पारमापतति पारापतः । लिहायच् (५-१-५० ) । मर्कटतिण्डुक - स्तिण्डुकविशेषः । कलरवे यथा - तां कस्यचिद्भवनवलभो सुप्तपारापतायाम् ॥ १२२ ॥ पारावती तु लवलीफळगोपाळगीतयोः । हरीतक्यादित्वाल्लवलीफलेऽपि स्त्रीत्वम् । पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे । पुष्पवदन्ता अस्य पुष्पदन्तः । दिङ्नागो वायव्यदिग्गजः । जिनमेदे नवतीर्थकरे यथावन्दे श्रीपुष्पदन्तस्य ॥१२३ ॥ पुष्पदन्तौ च चन्द्रार्कौवे कोक्त्या । पुष्पे इव पुष्पे दन्ताविव दन्तौ पुष्पे च ते दन्तौ च पुष्पदन्तौ । यथा - विश्वस्यास्य विलोचने तिरयतो (ते) यत्पुष्पदन्तौ तमः । अथ पुरस्कृतं पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च । पुरस्क्रियते स्म पुरस्कृतम् । नमस्पुरसोगतेरिति सः (२-३-१) । वाध्यलिङ्गः । पूजिते यथा - हरिन्मरुद्भिः सपुरस्कृतकृती । स्वीकृते यथा - सपुरस्कृत सक्रियः । सिक्काभिशस्तयोर्यथा - नमः करोति स्म महालक्ष्म्यै भक्ति पुरस्कृतः । अप्रकृते यथा - पुरस्कृता वर्त्मनि पार्थिवेन ॥ १२४ ॥
(३५१)