________________
(३५०) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥११८॥ प्राप्तवेष्टितयोर्शाते पल्लवितं सपल्लवे । लाक्षारक्ते तते पंचगुप्तश्चार्वाकदर्शने ॥११९॥ कमठे परिवर्तस्तु कूर्मराजे पलायने ।
युगान्ते विनिमये च परिघातस्तु घातने ॥१२०॥ (रम्यां रघुप्रतिप्रतिकृतिः सनवोपकार्थी बाल्यात्परामिवेत्यादि ।) प्रतीकारे यथावैरिप्रतिकृतौ दक्षः । प्रतिपचिस्तु गौरवे । प्राप्तो प्रवृत्ती प्रागल्भ्ये बोधे । प्रतिपदनं प्रतिपत्तिः । स्त्रियां गौरवे यथा-प्रतिपत्तिरियं गुरोः । प्रवृत्तिरारम्भः । तत्र प्राप्तौ च यथा-अर्थानों (अर्थोऽनों ) विचिन्त्य स्युः कार्याणां प्रतिपत्तयः । प्रागल्भ्ये बोधे च यथा-वागर्थप्रतिपत्तये । परिगतं गते । प्राप्तवेष्टितयोर्शाते । परिगम्यते परिगतम् । भावतान्तस्य क्लीबत्वं कर्म कर्तृ कान्तस्य तु वाच्यलिङ्गः । गते यथा-कचिदपि गजेन्द्रः परिगतम् ॥११८॥ प्राप्ते यथा-परिगत इवापत्यस्नेहो लतासु मृगीषु च । वेष्टिते यथा-कुसुमपरिगतोऽसौ केशपाशः सुकेश्याः । ज्ञाते यथा-इति परिगतमेतत् स्थानमासाच सद्यः । परलवितं सपल्लवे लाक्षारक्ते तते । पल्लवाः संयाता अस्य पल्लवितम् । तारकादित्वादितः । वाच्यलिङ्गः । ततं विस्तीर्णम् । सपल्लवे यथाअंकुरितः कोरकितः पल्लवितः पुष्पितश्च सहकारः। पंचगुप्तश्चार्वाकदर्शने । कमठे । पञ्चभिर्गुप्यते स्म पञ्चगुप्तान्यस्य वा पञ्चगुप्तः ॥११९॥ कमठः कच्छपः । परिवर्तस्तु कूर्मराजे पलायने युगान्ते विनिमये च। परिवर्तते जगदत्रेति परिवर्तनं वा परिवर्तः । युगान्ते यथा-परिवर्तेष्वनन्तेषु । विनिमये यथा-अन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् । परिघातस्तु पातने। अस्त्रं च । परिघातनम् परिघात्यतेऽनेन वा परिघातः ॥१२०॥ अथ पशुपतिः। पिनाकिनि हुताशने । पशूनां पतिः पशुपतिः । पशोः पतिरिति वा । हुताशनस्य छागवाहनत्वात् । पिनाकिनि यथाशरसन्धानसंरम्भः पशौ पशुपतावपि । पाशुपतः शिवमल्ल्यां पशुपत्यधि