SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः (३४९) प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते । प्रतिक्षिप्त प्रतिहते निषिद्धे प्रेषितेऽपि च ॥११५॥ प्रधपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रवजिता तु मुण्डीयाँ तापस्यां मांसिकौषधौ ॥११६॥ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥११७॥ कृतिः। निषेधे यथा-एतन्माननिराकृतौ कुशलतां यातं विधोमण्डलम् । प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः। प्रतिहन्यते स्म प्रतिहतः । वाच्यलिङ्गः । विद्विष्टे यथा-धिधिक शांतं प्रतिहतमिदं तीव्रमत्याहितं नः । प्रतिस्खलिते यथातस्मिन्नुपायाःसर्वे नः क्रूरे प्रतिहतक्रियाः । रुद्धे यथा-जम्बूकुंजप्रतिहतरयम् ।११४॥ प्रणिहितं तु सम्प्राप्तनिहितयोः । समाहिते। प्रणिधीयते स्म प्रणिहितम् । वाच्यलिङ्गः । सम्प्राप्ते यथा-प्रणिहितं धनम् । निहिते यथा-मन्दं मन्दं प्रणिहितपदं संचरत्युष्ट्रसार्थः । समाहिते यथा-भाव्यं तया प्रणिहितचेतसेति । प्रतिक्षिप्तं प्रतिहते निषिद्ध प्रेषितेऽपि च । प्रतिक्षिप्यते स्म प्रतिक्षिप्तम् । वाच्यलिङ्गः। प्रतिहते निषिद्धयोर्यथा-प्रतिक्षिप्तोऽपि हि खलो न शान्तिमवलम्बते । प्रेषिते यथा-परस्परप्रतिक्षिप्तशरोधास्तत्र सैनिकाः ॥११५॥ मधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रधूप्यन्ते स्म प्रधूपिता । क्लेशितायां यथा-प्रधूपितासु क्षितिपैः प्रजासु । रविगन्तव्यदिशि यथा-प्रधूपितायां दिशि सञ्चरन्ती । प्रव्रजिता तु मुण्डीयाँ तापस्यां मांसिकौषधौ । प्रव्रजति स्म प्रव्रजिता । मुण्डोरी ओषधिभेदः । तापस्यां यथा-कुमारप्रव्रजिता शापदुस्सहैः ॥११६।। प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ त्वष्टरि दक्षादौ । प्रजानां प्रजाया वा पतिः प्रजापतिः। पुंसि । ब्रह्मणि यथा-प्रजापतिः कल्पितयज्ञभागम् । त्वष्टा देववर्द्धकिः। प्रतिकृतिस्तु पूजने। प्रतिमायां प्रतीकारे। प्रतिक्रियते प्रतिकृतिः । स्त्रियां क्तिः ॥११७॥ प्रतिमा प्रतिबिम्बम् । तत्र यथारम्यां रघुप्रतिकृतिः स नवोपकायाँ बालात्परामिवदशां मदनोऽधितस्थौ ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy