________________
(३४८)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः धूमकेतू वहन्युत्पातौ नन्धावत्तौ गृहान्तरे । तगरेऽथ नदीकान्तो निर्गुण्डी निचुलाब्धिषु ॥१११॥ नदीकान्ता लताजम्बोः काकजङ्घोषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि ॥११२॥ नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । निस्तुषितं वजिते स्याद्तत्वचि लघुकृते ॥११॥
निराकृतिरस्वाध्याये निराकर निषेधयोः । . प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ॥११४॥ हृत्ये धूमकेतुरथागमत् । गृहभेदेऽपि तत्रोत्पात्ये च यथा-धूमकेतुरुदेत्येष प्रजानां धूमकेतवे । नन्द्यावर्तों महान्तरे । तगरे। नन्दी आवत्तों अत्र नन्द्यावर्त्तः । गृहान्तरमाढ्य समविशेषः । तगरो वृक्षविशेषः । द्वयोर्यथानन्द्यावर्तेऽथ दोलां कलयति ललना । अथ नदीकान्तो निर्गुण्डी निचुलाब्धिषु । नद्याः कान्तो नदीकान्तः । निर्गुण्डी सिन्दुवारः । निचुलो वेतसः । त्रिष्वपि यथा-पुरः पश्य नदीकान्तम् ॥१११॥ नदीकान्ता लताजम्बोः काकजौषधेऽपि च । स्फुटम् । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि । नागस्य दन्तो नागदन्त इव वा नागदन्तः । गेहाग्निःसृतदारुणि यथा-कार्यन्ते नागदन्त प्रणयमधिगृहं पत्रिकाश्चित्रवत्यः ॥११२॥ नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । नागस्येव दन्तौ यस्याः नागदन्ती । नासिकोदरोष्ठेति ङः । नागदन्तीव नागदन्ती । श्रीहस्तिनी अश्मरीरिपुनामौषधम् । कुम्भा कुम्भिका । निस्तुषितं वर्जिते स्याद्तत्वचि लघूकृते । निस्तुषं करोति णिचि क्ते निस्तुषितम् । वाच्यलिङ्गः । वर्जिते यथा मद्य निस्तुषितम् । शेषयोर्यथा-वचो निस्तुषिताः प्रियङ्गव इव ॥११३॥ निराकतिरस्वाध्याये निराकारनिषेधयोः । आकृतेर्जातनिष्क्रान्तो निराकृतिः। निर्गता आकृतिर्यस्मात् निराकरणं वा । अस्वाध्यायो वेदहीनः । तत्र यथाब्रह्मबन्धमुनिखेटनिराकृते । निराकारे वाच्यलिङ्गः । तत्र यथा-ननु श्लाघ्यो निरा