________________
चतुर्थः काण्डः
(३४७) गन्धवती सुरापुर्योः पृथ्वीयोजनगन्धयोः। गृहपतिः गृहो सूत्री चन्द्रकान्तन्तु कैरवे ॥१०८॥ चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ॥१०९॥ दिवाभीतः काकरिपो कुम्भिले कुमुदाकरे ।
दिवाकीर्ति पिते स्यादुलुकेऽन्तावसायिनि ॥११०॥ संनिभाः ॥१०७॥ गन्धवती सुरापुर्योः पृथ्वीयो जनगन्धयोः ॥ गन्धोऽस्त्यस्या गन्धवती। सुरा ओषधिः । योजनगन्धा व्यासमाता । चतुःष्वर्थेषु यथा-एतां गन्धवतीं पश्य व्यासनिर्भासितांतिकाम् । गृहपतिः गृही सत्री। गृहस्य पतिः गृहपतिः । पुंसि । गृही गृहस्थः । सत्रं सदादानमस्त्यस्य सत्री। द्वयोर्यथा-गृहपतिपरिकीर्णे पुण्यनैपुण्यभाजि । चन्द्रकान्तन्तु कैरवे । चन्द्रस्य कान्तं चन्द्रः कान्तोऽस्य वा चन्द्रकान्तम् । यथा-उन्निद्रश्चन्द्रकान्तैः ॥१०८॥ चन्द्रकान्तो रत्नभेदे। यथा-सायं शशांककिरणाहतचन्द्रकान्तनिःस्यन्दिनीरनिकरेषु कृताभिषेकाः। चर्मण्वती नदीभिदि कदल्याम्। चर्माणि सन्त्यस्यां चर्मण्वती। नद्यां मनुरिति (६-२-७२) मतौ चर्मण्वत्यष्टीवदिति साधुः । नद्यां यथा-चर्मण्वतीकर्तृ सदृग् । कदल्यां यथा-चर्मण्वतीस्तम्भनिबद्धतोरणम् । चित्रगुप्तस्तु कृतान्ते तस्य लेखके । चित्रे लिखिते गुप्तश्चित्रगुप्तः । द्वयोर्यथा-नामान्येषां लिखामि ध्रुवमहमधुना चित्रगुप्तः प्रमार्टि ॥१०९॥ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे। दिवा भीतो दिवाभीतः । अव्ययं प्रवृद्धादिभिरिति समासः । काकरिपुषूकः । कुम्भिलश्चौरः । तयोर्यथा-दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । दिवाकीर्ति पिते स्यादुलूकेऽन्तावसायिनि । दिवा कीर्त्यते दिवाकीर्तिः । स्वरेभ्य इः । कृतः कीर्तिरीति कीर्त्यादेशः । पुंसि । अन्तावसायी चण्डालः । त्रिष्वपि यथा-अन्विष्यते दिवाकीर्तिरपि कार्यार्थिभिनेरैः ॥११०॥ धमकेत वहन्युत्पातौ । धूमः केतुरस्य धूमकेतुः । पुंसि । वहौ यथा-शकसम्प्रेषितो