________________
(३४६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने । ऐरावती सरिदविधुद्भिदोः शतहदा यथा ॥१०५॥ कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने ॥१०॥ कुमुदती कैरविण्यां दयितायां कुशस्य च ।
कृष्णवृन्ता माषपण्या पाटलाख्यद्रुमेऽपि च ॥१०७॥ पुंक्लीवः। तत्र यथा-ऐरावते सुरवधूपरिंगीयमानयुष्मद्यशः श्रवणनिश्चलकर्णताले । नारङ्गलिकुचौ वृक्षविशेषौ ॥१०४॥ ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने । पुंक्लीव इति मंखः । यथा-प्रावृषेण्यं पयोवाहं विद्युदैरावताविव । ऐरावती सरिद्विद्युद्भिदोः शतहूदा यथा। इरावति मेघे भवा ऐरावती । शतहदोऽब्धिरस्त्यस्याः शतहूदा । अभ्रादित्वादः । शतधा हादते वा। वाडवज्योतिप्त्वात् साधुः। यथा शतहूदाशब्दो विद्युद्विद्युद्भिदोः वर्तते । तथा ऐरावती शब्दोऽपीत्यर्थः । तान्तेष्वपि लाघवार्थ शतहूदाशब्दस्य पाठः । द्वयोर्यथा-- ऐरावती चेस्थिरतामुपैति (तथा) दूरं परिक्षिप्तशतहदेव ॥१०५॥ कलधौतं रूप्यहेम्नोः । कलं किन्दृतं धौतमस्मिन् कलधौतम् । द्वयोर्यथा-कलधौतभित्तिषु शशी विराजते । कलधौतः कलध्वनौ। कलश्चासौ धौतश्च कलधौतः । वाच्यलिङ्गः । यथा-गीयन्ते कलधौतकण्ठकुहरैर्देवैर्यशांसि प्रभोः । कुहरितं तु रटिते पिकालापे रतस्वने । कुहरं संजातमस्य कुहरितम् । तारकादित्वादितः । त्रिष्वपि यथा-श्रुत्वा श्रुत्वा कुहरितममी पान्थसार्थाः स्मरन्ति ॥१०६॥ कुमुदती कैरविण्यां दयितायां कुशस्य च । कुमुदानि सन्त्यस्यां कुमुदती। नडकुमुदेति डिन्मतुः (६।२।७४) । कुमुदशब्दाद्वा तदस्यास्तीति मतुः । कैरविण्यां यथा-प्रभातवातागमकं पिताकृतिः कुमुद्रतीरेणुपिशंगविग्रहम् । कुशदयितायां यथा-अतिथि नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। कृष्णवृन्ता माषपण्या पाटलाख्यद्रुमेऽपि च । कृष्णं वृन्तमस्याः कृष्णवृन्ता । माषपर्णी ओषधिः । द्वयोर्यथा-कृष्णा वृन्ता वने भान्ति मधुपात