________________
चतुर्थः काण्डः
(३४५) मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते । उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ॥१०१॥ राहुग्रस्तार्कशशिनोपरुचितः समाहिते । रुद्ध दिग्धेऽयोज्जम्भितमुत्फुल्ले चेष्टितेऽपि च ॥१०२॥ उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ॥१०३॥ ऋष्यप्रोक्ता शुकशिम्ब्यां शतावर्या वगभिदि ।
ऐरावतोऽहौ नारङ्गे लिकुचि त्रिदशद्विपे ॥१०४॥ तनूकृते । उत्कीर्णे च । उल्लिख्यते स्म उल्लिखितम् । वाच्यलिङ्गः । द्वयोर्यथाटंकैरुल्लिखिताः स्फुरन्ति दृषदः । उपरक्तस्तु स्वर्भानौ व्यसनातुरे। राहुग्रस्ताकशशिनोः । उपरज्यते स्म उपरक्तः । व्यसनातुरे वाच्यलिङ्गः । तत्र यथा-नैवोपरक्तहृदयस्य हिताहिते स्तः ॥१०॥ राहुप्रस्तार्के यथा-उपरक्तोऽपि विवस्वान् न जातु कान्तिं निजां त्यजति । आत्तरागेऽपि मंखः । यथा-एतन्मे नितरां धुनोति हृदयं कामोपरक्तं मुखम् । उपचितः समाहिते । रुद्ध दिग्धे । उपचीयते स्म उपचितः । वाच्यलिङ्गः । समाहिते यथा-शमोपचितमानसाः । दिग्धो मांसलः । तत्र रुद्धे यथा-मस्त्रैस्तावन्मुहुरुपचितैदृष्टिरालप्यते मे । अथोज्जम्भितमुत्फुल्ले चेष्टितेऽपि च । उग्नम्भणमुजम्भितम् । क्लीवे कः । कर्तरि क्ते तु वाच्यलिङ्गः । उत्फुल्हे यथा-वल्लीभिरुनृम्भितम् । चेष्टिते यथाउज्जम्भितं कावचिकस्य पश्य ॥१०२॥ उग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । उद्ग्राह्यते स्म उग्राहितम् । वायलिङ्गः। उपन्यस्ते यथा-उग्राहिता सम्प्रति शम्भुसिदिः । उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः । उपसदनं उपसत्तिः । स्त्रियां तिः। त्रिष्वपि यथा-कृतोपसत्तिः सुगुरोः(सगुरोः)सदापि ॥१.३॥ ऋष्यप्रोक्ता शुकशिम्ब्यां शताव- वळाभिदि । ऋष्येण प्रोक्ता ऋष्यप्रोक्ता शूकशिम्बी कपिकच्छूः । वलाभित्शतावर्यावोषधी। ऐरावतोऽहौ नारङ्गे लिकुचि त्रिदशद्विपे । इरावति अध्यावनुपे वा भवः ऐरावतः । त्रिदशद्विपे