________________
(३४४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
त्यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितभर्सितौ । अपचितिय॑ये हानौ पूजायां निष्कृतावपि ॥९॥ अनुमतिः स्यादनुज्ञापौर्णमासीविशेषयोः । अभिशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च ॥९९।। उदास्थितश्चरेद्वाःस्थेऽध्यक्षे चोपाहितः पुनः ।
आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते ॥१०॥ ध्वस्तः। वायलिङ्गः । अवचर्णिते यथा-शफैरवध्वस्तशिलातलेषु । निन्दिते यथाएतैरवध्वस्तविहस्तमानसैः ॥९७॥ अधिक्षिप्तौ निहितभत्सितौ । अधिक्षिप्यते स्म अधिक्षिप्तः । वाच्यलिङ्गः । निहिते यथा-अधिक्षिप्ते भारे वहति करभो योजनशतम् । भत्सिते यथा-अधिक्षिप्तोऽपि विकृति न याति कापि सज्जनः । अपि चितिळये हानौ पूजायां निष्कृतावपि । अपचयनमपचितिः । स्त्रियां तिः । अपचायनम्वा । अपाच्चायश्चिः क्ताविति (४-२-६६) चिरादेशः ॥ व्यये यथा-गृहेऽपचितिसंकटे कटु रटत्यसौ गेहिनी । पूजायां यथा-प्रभवः पयोधिरपचितिरीश्वरभवनेषु रत्नानाम् । हानौ यथा-विभवापचितौ चिन्ता नो चिता हि विपश्चितां निष्कृतिनिष्क्रियः ॥९८॥ अनुमतिः स्यादनुज्ञापौर्णमासीविशेषयोः। अनुमननमनुमतिः । स्त्रियां तिः । अनुज्ञायां यथा-तवानुमत्या विचरन्ति यत्र । कलाहीनेन्दुयुक्तत्वं पौर्णमास्या विशेषः (विशेषतः) । अभिशस्तिः पुनलोकापवादे प्रार्थनेऽपि च । अभिशंसनमभिशस्तिः । स्त्रियां तिः ।। स्तुतावपि मंखः । त्रिष्वपि यथा-अभिशस्तिं प्रकुरुने यस्य शत्रुः सुहृद् यथा ॥९९॥ उदास्थितश्चरे द्वास्थेऽध्यक्षे च । उदातिष्ठति स्म उदास्थितः । उपाहितः पुनः । आरोपितेऽनलोत्पातेऽपि । उपाधीयते स्म उपाहितः। आगेपिते वाच्यलिङ्गः । तत्र यथ'-उष्ट्रोपाहितदिव्यरत्ननिचयो यातः सदेशान्तरम् । अनलोत्पाते ग्रथा-उपाहितोत्यन्ना भयोति विक्लवः । उपाकृत उपद्रते । मन्त्रण प्रोक्षितपशौ । उपाकिते स्म उपाकृतः । उ द्रुते व च्यलिङ्गः । मन्त्रेण प्रोशितपशौ यथा-योऽभिमन्य निहन्येत. स स्यात् पशुरुषाकृतः ।। १०० उल्लिखितं