________________
चतुर्थः काण्डः
(३४३) जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे । न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते ॥१५॥ अभियुक्तः परिरुद्ध तत्परेऽन्तर्गतं पुनः । मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ॥९६॥ पलासकलिकोद्भेदे चातिमुक्तस्तु निष्कले ।
वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ॥९॥ नस्यास्मदगुरोरघोरघण्टस्य । अवगीतं विगर्हिते। मुहुईष्टेऽपवादे च । अवगीयते स्म अवगीतम् । अपवादे क्लीबे शेषयोर्वाच्यलिङ्गः । विगहिते यथा-विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् । मुहुर्दष्टे यथाअवगीतं नृत्तम् । अपवादे यथा-यदि परस्त्रियं न त्यजसि तर्हि अवगीतं ते भविष्यति । अत्याहिंतं तु महाभये । जीवनिरपेक्षकर्मणि । अत्याधोयते स्म अत्याहितम् । द्वयोर्यथा-धिक् धिक् शान्तं प्रतिहतमिदं तीनमत्याहितं नः ॥९॥ अभिजातः कुलोद्भवे । न्याय्ये प्राज्ञे । अभिजायते स्म अभिजातः । वाच्यलिङ्गः । त्रिष्वपि यथा-अभिजातभवने (मदेन)तेन सा यदि युज्यते हि दैवयोगतः । अभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते । अभिनीयते स्म अभिनीतः । वाच्यलिङ्गः । संस्कृते यथा-अभिनीतः काव्यार्थः प्रायः शिक्षाविधिप्रसरैः । वागादिना अभिनयविषयता नीत इत्यर्थः ॥१५॥ अभियुक्तः परिरुद्ध तत्परे । अभियुज्यते स्म अभियुक्तः । वायलिङ्गः । परिरुद्ध आक्षिप्तस्तत्र यथा-अभियुक्तो रणवक्तर्वलतेऽभिमुखं भटः । तत्परे आसक्ते यथा-युक्तोऽभियुक्तो जनः । अन्तर्गतं पुनः । मध्यप्राप्तविस्मृतयोः । अन्तगच्छति अन्तर्गतम् । वाच्यलिङ्गः । मध्यप्राप्ते यथा-हृदयान्तर्गतो मन्युनदग्ध्वा विनिवर्तते । । विस्मृते यथा-अन्तर्गतानि शास्त्राणि दौर्गत्येन गरीयसा । अङ्गारितं तु भस्मिते । पलासकलिकोद्रेदे च । अङ्गाराः संयाता अस्य अङ्गारितम् । तारकादित्वादितः। भस्मिते वाच्यलिङ्गः॥९६॥ अतिमुक्तस्तु निष्कले। वासन्तिकायां तिनिशेऽपि। अतिमुच्यते स्म अतिमुक्तः । निष्कले वाच्यलिङ्गः । अवध्वस्तोऽवचूणिते । त्यक्तनिन्दितयोश्च । अवध्वस्यते स्म अव