________________
mernamww-uRemixrm
(३४२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके । पान्थे वायौ संसरणं त्वसम्बाधचमगतौ ॥९१।। संसारे समरारम्भे नगरस्योपनिर्गमे । हम्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ॥९२॥ अवदातं तु विमले मनोज्ञे सितपीतयोः । अपावृतोऽपरायत्ते पिहितेऽवसितं गते ॥९३॥ ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विगर्हिते ।
मुहुदृष्टेऽपवादे चात्याहितं तु महाभये ॥९॥ समीरणः। रम्यादित्वादनट् । फणिज्जको मरुबकः। वायो यथा-समीरण प्रेरयिता भवेति त्यादिश्यते केन हुताशनस्य । संसरणं त्वसम्बधचमृगतौ । संसारे समरारम्भे नगरस्योपनिर्गमे। संसृतिः संसरणम् । असम्बाधचमूगतो असंकटसेनागमने यथा-एतत्संसरणं विलोक्य भवतो याताः क्षयं शत्रवः ॥९१॥ संसारे पुनर्भवे यथा-कोऽस्मिन् संसरणे विवेकविशदो यातो रति सज्जनः । नगरस्योपनिर्गमो घंटापथः । तत्र समरारम्भे च यथायान्ति द्रुतं संसरणेषु योधाः । हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः । हस्तिकर्णाविव कौ पत्राणि चास्य हस्तिकर्णः। उष्ट्रमुखादित्वात्साधुः। त्रिष्वपि यथा-हस्तिकर्णसवणो ऽयम् ॥९२॥ अथ तान्ताः। अवदातं तु विमले मनोज्ञे सितपीतयोः। अवदायते स्म अवदातम् । सितपीतयोगुणः पुंसि । तद्वति शेषयोश्च वाच्यलिङ्गः । विमले यथा-सत्यावदाते वचसि त्वदीये । मनोज्ञे यथाअवदात मुखम् । सिते यथा-कुन्दावदातं यशः । पीते यथा-जयति कनकावदातः कृष्णजटा मुकुटमण्डितो वृषभः । अपावृतोऽपरायत्ते पिहिते । अपात्रियते अपावृतः । वाच्यलिङ्गः । अवसितं गते । ऋ(ब) ज्ञातेऽवसाने चापि । अवसीयते अवसितम् । वाच्यलिङ्गः । गते यथा-अवसितं बाल्यम् ॥९३॥ ऋद्धे यथा-धनेनावसितः । ज्ञाते यथा-अवसितमन्त्रो राजा । अवसाने भावानयने द्रव्यानयनमिति । न्यायादवसानं गते यथा-अवसितमन्त्रसाध