________________
(३४१)
चतुर्थः काण्डः रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे । अङ्कोठे वारबाणस्तु कूर्पासे कवचेऽपि च ॥८॥ विदारणं भेदने स्यात्सम्पराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम् ॥८९॥ शरवाणिः शरमुखे पदातौ शरजीविनि । शिखरिणी वृत्तभेदे रोमाली पेयभेदयोः ॥९॥
रेरिहाणोऽम्बरे रुद्रे । रिहः सूत्रो हिंसाः । रेहति रेरिहाणः । कल्यादित्वात्साधुः । अम्बरं नमः । लम्बकर्णः पुनश्छगे । अङ्कोठे । लम्बी कर्णावस्य लम्बकर्णः । अङ्कोठ अङ्कोलकनामा वृक्षः । वारबाणस्तु कूर्पासे कवचेऽपि च । बाणान् वारयति वारबाणः । राजदन्तादित्वात् । 'लोबः । कूर्पासः कंचुकः । कवचं वर्म । द्वयोर्यथातबोधवाग्बाणानामयत्नपटवासताम् ॥८८॥ विदारणं भेदने स्यात्सम्पराये विडिम्बने । विदार्यते विदार्यन्त्यस्मिन्वा विदारणम् । भेदने यथा-दन्तभंगो हि नागानां श्लाघ्यो गिरिविदारणे । शेषयोर्यथा-सुदुष्करं वैरिविदारणं नरैः। वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम् । विगततरणौ द्वयर्के पाताले भवा वैतरणी । वै दुःखार्थः । दुःखेन. तीर्यते इति वा । ऋहसमृधृ (उ.३८) इत्यणिः प्रेतन्दी नरकनदी । तत्र यथा-नदी वैतरणी नामावतार्यन्ते वराककाः ॥८९॥ शरवाणिः शरसुखे पदातौ शरजीविनि। शरान् वणति शरवाणिः । कमिवमीति णिदिः। शरजीवीनि वाच्यलिङ्गः। शेषयोः पुंसि । शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः । स्त्रीरत्ने मल्लिकायां च । शिखरमस्त्यस्या शिखरिणी। वृत्तभेदे यथा-हरन् सर्वा भोज श्रियमविरतं सिन्धु तिना कृतार्थस्तत्वानो निशितमसि विद्योतमसमम् । सुधांशुस्त्वद्वंशे स्वमिव जयसिंहक्षितिपते कला पूर्णः पश्योदयशिखरिणीहाभ्युदयते ॥ शेषेषु यथा-शिखरिणी-- रमणीयशिरोमणिः ।।९०॥ समीरणः फणिज्जके । पान्थे चायो । सम्यक्