________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
परवाणिर्धमध्यक्षे वर्षे पारायणं पुनः । कात्स्न्यें पारगतौ संगे पीलु पण्यषधीभिदि ॥८५॥ मूवयां चिचिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनामृणस्तु खञ्जने ॥ ८६॥ दर्दरा रक्तरेणुः पलाशकलिको मे । सिन्दुरे रागचूर्णस्तु खदिरे मकरध्वजे ॥ ८७ ॥
(३४०)
उत्तरायणे शिवलिङ्गस्य वृतपूजा । परायणं स्यादभीष्टे तत्पराश्रययोरपि । पर ईयते परायणम् । स्वरादिति णत्वम् । अभीष्टतत्परयोर्वाच्यलिङ्गः । त्रिष्वपि यथा - परात्परतरं यान्ति नारायणपरायणाः ॥८४॥ परवाणिर्धर्मांध्यक्षे वर्षे । परा वाणिरस्य परवाणिः । परं वर्ण्यते वा । कमिवमीति णिदि: । वर्षं वत्सरः । पारायणं पुनः । कात्स्न्यें पारगतौ संगे । पारमयन्तेऽनेन साकल्यं व्याप्नुवन्ति । परेऽयनं वा पारायणम् । कात्यैमत्र कार्त्स्न्येन वचनम् । यदाह - साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् । तत्र यथाधातुपारायणम् । पारगतौ यथा - स भवतु भवपारावारपारायणाय ! संगे मम्बन्धे यथा - ब्रह्मपारायणं जगौ । पीलुपण्यषधीभिदि मूर्व्वायां चिचिकायां च । पीलवत् पर्णमस्याः पीलुपर्णी पाककर्णेति ङोः ॥ ८५ ॥ मूर्व्वा ज्या हेतुस्तृणविशेषः । पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च । पुष्कराणि सन्त्यस्यां पुष्करिणी । जलाशये यथा- न खानिताः पुष्करिण्यो रोपिता न महीरुहः । मीनामृणस्तु खञ्जने । दर्दग़ । मीनान् आमयति मान्यते वा मोनामृणः । भ्रूणतृणेति साधुः । स्वञ्जन पक्षी ॥ ८६ ॥ दर्दराम्रो वृक्षमेदः । रक्तरेणुः पलाश कोद्रमे । सिन्दुरे । रक्ता ग्णवोऽस्य रक्तरेणुः । पुंसि । रागचूर्णस्तु खदिरे मकरध्वजे । रागाय चूर्णोऽस्य रागेण चूर्णयति वा रागचूर्णः । खादेरे यथा - रामचूर्णवनं पश्य । मकरध्वजे यथा - श्रीरागचूर्णश्रियम् ॥८७॥