________________
चतुर्थः काण्डः
(३३९) उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निस्तरणन्तु निस्तारे तरणोपाययोरपि ।।८१॥ निरूपणं विचारावलोकनयोनिदर्शने । निगरणं भोजने स्यात् निगरणः पुनर्गले ॥८२॥ प्रकरणं स्यात्प्रस्तावे रूपकेऽथ प्रवारणं । काम्यदाने निषेधे च परीणन्तु पर्वणि ॥८३॥ पर्णवृन्तरसे पर्णसिरायां घृतकम्बले ।
परायणं स्यादभीष्टे तत्पराश्रययोरपि ॥८४॥ श्रीः । नारं नरसमूहमयते नारायणा । नारायणस्य भार्या वा । निःसरणं मृतौ । उपाये मेहादिमुखे निर्वाणे निर्गमेऽपि च । निस्सरत्यनेन नि:स्त्रियते वा निस्सरणम् । गेहादीनां मुखद्वारं निर्गमे यथा-वचो जीवितयोर्जातः पुरो निस्सरणेरणः ॥८०॥ निस्तरणं तु निस्तारे तरणोपाययोरपि । निस्तीर्यते निस्तरन्त्यनेन वा निस्तरणम् । निस्तारो जोविका तत्र उपाये च यथा-रणा निस्तरणं तेषां येषां प्राणास्तृणं नृणाम् । तरणे यथा-संसारनोरनिधिनिस्तरणाय कायः ।।८१।। निरूपणं विचारावलोकनयोनिदर्शने । निरूप्यते निरूपणम् । विचारावलोकनयोर्यथा-कलादा एव जानन्ति कापिणनिरूपणम् । निदर्शनं दृष्टान्तः । निगरणं भोजने स्यात् । निगीर्यते निगरणम् । निगरणः पुनर्गले । निगरन्त्यनेन निगरणः ।।८२॥ प्रकरणं स्यात्प्रस्तावे रूपके । प्रक्रियते प्रकरणम् । प्रस्तावे यथा-प्रकरणकथितं वाक्यं भवति हि संसिद्धये पुंसाम् । रूपके यथा-प्रकरणफलबीजभावकानाममृतभुजां समुपास्महे समाजम् । कीर्णेऽपि यथा-पुष्पप्रकरणरुचिरे । अथ प्रवारणम् । काम्यदाने निषेधे च । प्रवार्यते प्रवारणम् । काम्यस्य वस्तुनो दानं काम्यदानम् । कामनापूर्व दानं स्वेच्छया त्यागः । कामदानमित्यमरः । परीणन्तु पर्वणि । पर्णवृन्तरसे पर्णसिरायां घृतकम्बले । पर्चति पर्चरीणम् । भ्रूण-- तृणेति साधुः । पर्वणि ग्रन्थौ उत्तरायणे वा । रोणं संजातमिति वा । घृतकम्बल