________________
(३३६)
अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
सूत्रकण्ठः खंजरीटे द्विजन्मनि कपोतके । हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च ॥७०॥ अपो गण्डोऽतिभीरौ स्याच्छिंशुकाविकलाङ्गयोः । चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ॥७१ । जलरुण्डः पयोरेणौ जलावर्ते भुजङ्गमे । देवताडो घोषकेऽग्नौ राहो वातखुडा पुनः ॥७२। वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ।
अध्यारूढः समारुढेऽभ्यधिकेऽङ्गारिणी पुनः ॥७३ । कुण्ठैः शठसूत्रकण्ठैः । हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च ॥७०॥ हारी हारवान् मनोहरों वा कण्ठो गलः स्वरो वा यस्य हरिकण्ठः । हारयुक्तकण्ठे वाच्यलिङ्गः । अथ डान्ताः । अयो गण्डोऽतिभीरौ स्याच्छिंशुका विकलाङ्गयोः । प्यते पूगोगादिरित्यण्डेऽपोगण्डो विकलाङ्गस्तत्सदृशाऽपोगण्डः । नजत्रे सादृश्ये । पोगण्डविपरीतो वा । अतिभोरावविकलाङ्गे च वाच्यलिङ्गः । चक्रघाडं गणे। चक्रेण वाडते चक्रवाडम् । लत्वे चक्रवालमपि । यथा-नागाङ्क मोक्तुमिच्छोः शयनमुरुफणा चक्रवालोपधानम् । चक्रवाडोऽद्रौ चक्रवालवत् ॥७१॥ अद्रिलोकालो काख्यस्तत्र यथा-ध्रुवं पतति पंक्तिकंधर कबन्धपीडाभरात् निजाबनमनक्रमोन्नमित चक्रवालाचलम् ॥७१॥ जलरुण्डः पयोरेणौ जलावः भुजङ्गमे । जलं रुणद्धि जलरुण्डः । पिचण्ड दित्वात्साधुः । जडं रुण्डमस्यति वा । देवताडो घोषकेऽग्नौ राहौ । देवः प्रधानभूतस्ताडो देवताडः । देवता अण्डति उघछन्ति अत्रेति वा । देवान् ताडयति वा । घोषको वृक्षः । वातखुडा पुनः । वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते। वातेन खोडति प्रतिहन्यते वातखुडा । पृषोदरादित्वात् ॥७२॥ पिच्छिलः स्फोटः पिच्छिला स्फोटिका । वामा स्त्री । सर्वेषु पुमीत्यन्यः । अथ ढान्ताः । अध्यारूढः समारुढेऽभ्यधिके । अध्यारोहतेः कर्तरि कर्मणि वा क्ते अध्यारूढः । वायलिङ्गः । समारूढे यथाअभ्यारुढे सुरपरिवृढे स्कन्धमैगवणस्य । अथ णान्ताः। अङ्गारिणी पुनः।