________________
चतुर्थः काण्डः श्रुतिकटः प्रायश्चित्ते प्रांचलोहभुजङ्गयोः । कलकण्ठः पिके पारापते हंसे कलध्वनौ ॥६६॥ कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्युहे ग्रामचटके खञ्जरीटे शिखावले ॥६७॥ कालपृष्ठन्तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ॥६८॥ जम्बीरे नागरङ्गे च कर्मरङ्गकपित्थयोः ।
पुतिकाष्ठन्तु सरले देवदारुह मेऽपि च ॥६९॥ अनुगच्छति आवृणाति वा श्रुतिकटः । प्रायश्चित्तं पापशोधनमुपवासादि । प्राश्चलोहं लोहविशेषः । भुजङ्गः सप्पः। अथ ठान्ताः । कलकण्ठः पिके पारापते हंसे कलध्वनौ । कलो मधुरकण्ठः स्वरोऽस्य कलकण्ठः। पिके पारायते च यथा-प्रियतमावदनेन्दुविलोकितैरसुहितः कलकण्ठयुवा न कः प्रति मुहुः प्रतिगत्य नभस्तलाद्वलति याति वलत्यथ यात्यथ । कलध्वनी वाच्यलिङ्गः। तत्र यथा-कलयति कलकण्ठः पञ्चमं गगराजम् ॥६६॥ कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले । कालो नीलश्च कण्ठोऽस्य कालकण्ठः नीलकण्ठः । पोतसारो वृक्षः । महेश्वरे यथाजयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । शिखावले मयूरे यथा-यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः । एवं कालकण्ठोऽपि ॥६७॥ कालपृष्ठन्तु कोदण्डमात्रके कर्णधन्वनि । कालः पृष्ठेऽस्य कालं पृष्ठमस्ति वा कालपृष्ठम् । कर्णधन्वनि यथा-कर्णे करान्दोलितकालपृष्ठे तिष्ठेद्भपृष्ठगणः कुतोऽग्रे । कालपृष्ठो मृगभेदे कङ्के। कङ्कः पक्षी । दन्तशठः पुनः । जम्बीरे नागरले च कर्मरङ्गकपित्थयोः। दन्तेषु शठोऽम्लत्वात् दन्तशठः चत्वारो वृक्षाः ॥६॥ पूतिकाष्ठन्तु सरलो देवदारुद्रुमेऽपि च । पूति उग्रगन्धं काष्ठमस्य पूतिका-. ष्ठम् । सरलो वृक्षः ॥६९। सूत्रकण्ठः खंजरीटे द्विजन्मनि कपोतके। सूत्रं सूत्राकृतिरुपवीतं वा कण्ठेऽस्य सूत्रकण्ठः । द्विजन्मनि यथा-किं पाढत