________________
___ (३३४) अनेकार्थसंहः सटीकः :: तीयो विभागः
प्रतिकृष्टन्तु गुह्ये स्यात् द्विरावृत्या च कर्षिते । प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च ॥६३॥ परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना । वर्कराटस्तु तरुणादित्यरोचि:कटाक्षयोः ॥६४॥ स्त्रीणां पयोधरोल्संगकान्तदत्तनखेऽपि । शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ॥६५॥
तुलाकोटिः । राजदन्तादित्वात् । तुलाकृतेर्जघायाः कोटिरिव तुलाकोटिः । पुंसि । द्वयोर्यथा-अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् इति कोपादिवातानं पादयुग्मं मृगीदृशः । नारकीटः स्वदत्ताशाविहन्तयश्मकीटके । नरकीट एव नारकोटः । प्रज्ञादित्वादण् । न इयर्ति नारः । पाषाणस्तस्य कीटो वा स्वदत्तामाशां कामं विहन्ति यस्तत्रेत्यर्थः । तत्र वाच्यलिङ्गः ॥६२॥ प्रतिकृष्टन्तु गुह्ये स्यात् । द्विरावृत्या च कर्षिते । प्रतिकृष्यते प्रतिकृष्टं वाच्यलिङ्गः । गुह्यं गोप्यम् । प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च । प्रतिशिष्यते प्रतिशिष्टः । वाच्यलिङ्गः । प्रत्याख्याते यथा-अप्रियाणि वदत्येक प्रतिशिष्टोऽपि दुर्जनः । प्रेषिते यथा-दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । परपुष्टः कलकण्ठे । परेण पुष्यते स्म परपुष्टः । यथा-तद्वसन्तमदान्धस्य परपुष्टस्य चेष्टितम् । परपुष्टा पणाङ्गना । यथा-इष्टा नैव विशिष्टानां परपुष्टा स कुट्टनी । वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः । स्त्रीणां पयोधरोत्संगकान्तदत्तनखेऽपि च । वर्करं तरुणमादित्यमटति वर्कराटः । वर्करेण नर्मणा वाटति वर्कराटः ॥६४॥ शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि । शिपिश्चर्मविष्टं दोषव्याप्तमस्य शिपिविष्टः । शिबिर्नाम राजा स मूर्द्धनि पिष्टोऽस्य तदस्थिवहनादिति वा पृषोदरादित्वात् । दुश्चर्मा निश्चमानशिश्नः विष्णावपि । विष्णुपिनाकिनो र्यथा-शिष्टानां शिपिविष्टविष्टपपते भूयात् स्वमिष्टप्रदः । श्रुतिकटः प्रायश्चित्ते प्रांचलोहभुजङ्गयोः । श्रुति शास्त्रं कर्ण वा कटति