________________
चतुर्थः काण्डः
(३३३) कामकूटौ वेश्याविभ्रमष्टावथ कूटन्नटः । शोणके कैवत्तीमुस्ते कुण्डकीटस्तु जारतः ॥५९॥ विप्रीपुत्रे दासीपतौ चार्वाकोक्ति विशारदे । खञ्जरीटस्तु खञ्जनेऽसिधाराव्रतचारिणी ॥६०॥ गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि । चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ । ६१॥ तुलाकोटिनिभेदेऽर्बुदे स्यान्नूपुरेऽपि च ।
नारकोटः स्वदत्ताशाविहन्तयश्मकीटके । ६२॥ करे हटनमस्येति करहाटः । पद्मकन्दे यथा-सुघटितकरहाटां नोटिभित्रोट्यन्ति । पुष्पविशेषेऽपि । कार्यपुटोऽनर्थकरे क्षपणोन्मत्तयोरपि ॥५८॥ कार्येषु पुटति श्लिष्यति कार्यः पुटोऽस्यति वा कार्यपुटः । अनर्थकरोन्मत्तयोर्वाच्यलिङ्गः ॥५८। कामकूटौ वेश्याविभ्रमेष्टौ । काम क्टं कपटमत्र कामस्य वा कूट इव कामक्टः । वेश्याया विभ्रमो वेश्याविभ्रमः । वेश्याया इष्टश्च । अथ कूटन्नटः । शोणके कैवर्तीमुस्ते । कूटन् वक्रीभवन् नटति स्पन्दते कूटन्नटः । द्वाप्यौषधभेदौ । कुण्डकोटस्तु जारतः । विप्रीपुत्रे दासीपतौ चार्वाकोक्ति विशारदे । कुण्डो भर्तयमृते जारजः । स चासौ कीटश्च कुण्डकोटः । निन्धं कुत्सनैरपापाचैरिति समासः। अन्यत्रोपचारात् । चार्वाकोक्तिविशारदे वाच्य लङ्गः । खञ्जरीटस्तु खञ्जने । असिधारावततारिणि । खञ्जति खञ्जरोटः । खजेरीटः । असिधारावतचारिणि वाच्यलिङ्गः । खंजने यथा-स खंज गेटा सपयःपस!दा (?) सा कस्य ना मानसमाच्छिनत्ति ॥६०॥ फलकेऽपि । गाढमुष्टिस्तु कृपणे कृणप्रभृतावपि । गाढो मुष्टिरस्य गाढमुष्टिः । कृपणे वाच्यलिङ्गः । द्वयोर्यथा-कोशासक्तो गाढमुष्टिर्न किश्चित् । प्रभृतिशब्दात् क्षुरिकादो। चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ । चक्र चक्रावद्वा वटनं वेष्टनमस्य चक्रं वति वा चक्रवारः । क्रियाया आरोहः प्रकर्षः ॥६१॥ तुलाकोटिनिभेदेऽर्बुदे स्यान्नूपुरेऽपि च । कोटेस्तुला
१. गन्धकुटी मदिरायां बुद्धायतनेऽपि च । गाढ० । २. चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च । तुला. ।