________________
(३३२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे । भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ॥५५॥ भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे । भृगराजो मधुकरे मार्कवे विहगान्तरे ॥१६॥ राजराजो नृपेशेन्द्रोः कुबेरेऽथ सकृत्प्रजः । द्विके सिंहेऽथोच्चिङ्गटः कोपने मीनभिद्यपि । ५७॥ करहाटः पद्मकन्दे देशद्रुमविशेषयोः ।
कार्यपुटोऽनर्थकरे क्षपणोन्मत्तयोरपि ॥५८॥ युधिष्ठिरे । धर्मेण समवर्त्तित्वेन राजते धर्मराजः । सुगते श्राद्धदेवे च यथाधर्मगजपरिकल्पितरातित्यक्तदोषनिचमाः खलु सन्तः । युधिष्ठिरे यथा-सहायमध्वरधुरां धर्मराजो विवक्षते । भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च । भरन्तो वाजाः पक्षाः अस्य भरतो वाजयति वा भरद्वाजः ॥५५॥ भारद्वाजो मुनौ । भरद्वाजस्यापत्यं वृद्धं भारद्वाजः । विदादित्वादनु । भारद्वाजी वनपिचुद्रुमे । भारद्वाजस्येयं भारद्वाजी । वनोद्भववमनीवृक्षः । भृङ्गराजो मधुकरे मार्कवे विहगान्तरे । भृगश्चासौ राजा च भृगवद्राजते वा गरानः । मार्कवः केशरञ्जनः । विहगान्तरं धूम्याटः । मधुकरे स्त्रीपुंसः। तत्र यथाराजन् राजीव रानीयं भृङ्गराजविराजते ॥५॥ राजराजो नृपेशेन्द्वोः कुबेरे । राज्ञां राजा स्वामी राजा चासौ राजा च राज्ञां यक्षाणां वा राजा राजराजः । राजन् सरित्यत् । समाप्सान्तः । नृपेशे यथा-नैवास्तिराजराजस्य तत्सुखं नैव देवराजस्य । इन्दौ यथा-सपदि कुमुदराजी राजराजेन रेजे । कुबेरे यथा-अन्त पिश्चिरमनुचरा राजराजस्य दध्यौ । अथ सकृत्मजः । द्विके सिंहे । सकृत्प्रजापत्यमस्य मकृत्प्रजः । द्विकः काकः । द्वयो यथासकृत्प्रनानामपि वंशवृद्धिः । अथ दान्ताः । अथोच्चिङ्गटः कोपने मीनभिधपि । उच्चाङ्गमति उच्चिङ्गटः | पृषोदरादित्वात् । कोपने वाच्यलिङ्गः ॥५७।। करहाटः पद्मकन्दे देशद्रुमविशेषयोः । कं रहयति करहं पद्मादि तदरति ।