________________
तृतीयः काण्डः कशङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे । वाते कश्मीरज कुष्टे कुंकुमे पौष्करेऽपि च ॥५२।। कश्मीरजाऽतिविषायां क्षीराब्धिजं तु मोक्तिके । वशिरे क्षीरान्धिजस्तु चन्द्र क्षीराधिना श्रियाम् ॥५३॥ ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ।
शुद्धे च द्विजराजस्तु शेषे तायें निशाकरे ॥५४॥ त्रोटिश्चञ्चुः तया युक्तो मत्स्यत्रोटिमत्स्यः । कंकः पक्षी । शङ्गाट जलोद्भवः कन्दः ॥५१॥ मलिम्लुचस्तु तस्करे । वाते । मलिनं म्लोचति मलिम्लुचः । मूलविभुजादित्वात्कः । तस्करे यथा-न परेषु महौजसः छलादपकुर्वन्ति मलिम्लुचा इव । अथ जान्ताः । कश्मीर कुष्टे कुङ्कुमे पौष्करेऽपि (पुष्करेऽपि) च । कश्मीरेषु जातं कश्मीरजम् । कुष्टं गन्धद्रव्यम् । पौष्करं पुष्करमूलम् । कुङ्कुमे यथा-अरुणितमकठोरैर्वेश्मकश्मीरजाम्भः स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥५२॥ कश्मीजाऽतिविषायाम् । अतिविषा ओषधिः । क्षीराब्धि तु मौक्तिके । बशिरे । क्षीराब्धेर्जातं क्षीराब्धिजम् । वशिरः सामुद्रलवणम् । क्षीराधिनस्तु चन्द्रे । यथा-क्षीराब्धिजस्य तुलनां ललनामुखानि । क्षीराधिना श्रियाम् । यथा-क्षीराब्धिजा न स्थिरतामुपैति ॥५३॥ ग्रहराजः शशिन्यः । ग्रहाणां राजा ग्रहेषु राजते वा ग्रहराजः । द्वयोर्यथा-अस्मिन् विग्रहराजे काले कश्चक्षुषामुदयः । जघन्यजोऽनुजन्मनि शूद्रे च । जघन्ये अंत्ये जातो जघन्यजः। अनुजन्मनि यथा-जघन्यजे भ्रातरि कातरास्ये। नोचेऽपि । नीचशूद्रयोर्यथा-तत्कि कराषि दुर्बुद्धे यत्कुर्वन्ति जघन्यजाः । द्विजराजस्तु शेषे तायें निशाकरे । द्विजानां सर्पाणां पक्षिणां विप्राणां वा राना द्विजराजः । राजन् सखेरिति अट् (७-३-१०६) समासान्तः। शेषे ताक्ष्य च यथाअध्यास्य विष्णुद्विजराजपृष्टम् । निशाकरे यथा-इत्थं द्विजेन दिजरानकान्तिरावेदिते बेदविदांवरेण । द्विजेऽपि ॥५४॥ धर्मराजस्तु सुगते श्राद्धदेवे