________________
तृतीयः काण्डः भास्करत्यक्तदिक्कुल्योराथर्वणः पुरोधसि । अथर्वणज्ञब्राह्मणे चाप्यारोहणं प्ररोहणे ।।७४।। समारोहे सोपाने च स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोरुत्क्षेपणमुदञ्चनम् ।७५।। व्यञ्जनं धान्यमलनं वस्तु कामगुणो रतौ ।
विषयाभोगयोश्चापि कार्षापण स्तु कार्षिके ॥७६॥ भास्करत्यक्तदिकल्ल्योः । अङ्गाग: मन्त्यस्यां अङ्गारिणी। भास्करत्यक्तदिगित्युपचारात् । तत्र यथा-तत्क्षणादित्यमुक्तां तु वदत्यङ्गारिणी दिशम् ॥७३॥ आथर्वणः पुरोधसि। अथर्वणब्राह्मणे चापि । अथर्वाणं वेत्त्यधीते वा माथवणिकः । न्यायादित्वादिकण् । अथर्वणिकानां धर्म आम्नायः संधो वा माथर्वणः आणिकादणि कलुक्चेति साधुः । अ थर्वणयोगात्पुरोधा अथर्वज्ञश्च आथर्वणः । शान्तिगृहेऽपि तत्र क्लोनम् । आरोहणं प्रर' हणे। समारोहे सोपाने च । आरुह्यते आरोहन्त्यनेन वा आरोहणम् । पाराहणे उद्गमे यथा-अपामोघं (मेघः) किरति हरितारोहणकृते ।।७४।। समाराहे यथा-आरोहणार्थ नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् । सोपाने यथा-आगे,णेषु विचरन्ति सदैव हंसाः । स्यादुद्धरणमुन्नये भुक्तोज्झितोन्मूलनयोः । ऊद्धं ध्रियते हियते वा उद्धरणम् । उन्नय ऊर्द्ध नयनम् । कू आदिभ्यो जलादेः । तत्र यथा-कैलासोद्धरणेन भारवहनप्रौढिस्त्वयाविष्कृता । भुक्तोज्झिते वान्तान्ने यथा-अस्मारिकमुद्धरणलब्धमृतेस्तवैष गर्वस्वरं वद सखे ननु नित्रपोऽपि । ऊन्मूलने यथा-अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् । उत्क्षेपणमुदचनम् । व्यञ्जनं धान्यमलनं वस्तु । उत्क्षिप्यते उरिक्षपन्त्यनन वा उत्क्षेपणम् । उदंचने यथा-उत्क्षेपणं वारिघटस्य कूपात् । कामगुणो रतौ विषयाभोगयोश्चापि । क मस्य स्मरस्य इच्छाया वा गुणः कामगुणः । त्रिष्वपि यथा-पण गिनाः कामगुणैर्गुणिन्यः । कार्षापणस्तु कार्षिके । पणषोडशके । कर्षण आप्यते कार्षापणः । भुजादित्वाद नट् । पूर्वपदस्थेति गत्वम् । स्वार्थेऽ ण कार्षापणः पुंकलाबः । कार्षिको विशत्यधिकैक