________________
चतुर्थः काण्ड :
(३२७) शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च ।। संघाटिका' तु कुट्टन्यां घ्राणे युग्मेऽम्बुकण्टके ॥३८॥ सन्तानिका क्षीरसारे मर्कटस्य च जालके । सुप्रतीकः स्यादोशानदिग्गजे शोभनाङ्गके ॥३९॥ सैकतिकं पुनर्मात्यात्रामङ्गलसूत्रयोः । सैकतिकः क्षेपणिके संन्यस्ते भ्रान्तिजीविनि ॥४०॥
वृक इव शालावृकः । शालां वृणोति वो । वीचि पुषीति कित् कः (उ.२२) । त्रिष्वपि यथा-भीरुः शालावृकेभ्यो यः स कार्य किन्नु साधयेत् । शिलाटकस्ति: (शि)लाट्टयोः। शिलमुच्छं शिलां वा अटति शिलाटकः ॥३७॥ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । शीर्यते शंगाट कपाटादित्वात्साधुः । तस्य तुल्यं शृङ्गाटकम् । शृङ्गटति वा । पथां श्लेषे यथा-धातुश्चतुर्मुखीकंठशृंगाटकविहारिणीम् । पानीयकण्टको जलविशेषः । पुंस्यपीत्यन्ये । संघाटिका तु कुट्टन्यां घ्राणे युग्मेऽम्बुकण्टके । संघटते संधमटति वा संघाटिका । युग्मे यथा-संघाटिका घटयतां शिवयोः शिवानि ॥३८॥ सन्तानिका क्षीरसारे (शारे)मर्कटस्य च जालके । सन्तनोति सन्तानिका । सन्तानोऽस्त्यस्य वा सन्तानिका । क्षीरसारम् आमिक्षा । मर्कटो लुता तस्य जालकम् । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके । शोभनाः प्रतीकाः अवयवा यस्य सुप्रतीकः । ईशानदिग्गजे यथ-सुरगज इव गांगं सैकतं सुप्रतीकः । शोभनाङ्गके वाच्यलिङ्गः ॥३९॥ सैकतिकं पुनर्मात्यात्रामङ्गलसूत्रयोः। सिकिः सौत्रः । सिकते सैकतिकम् । कुशिकादित्वात्साधुः । मातृयात्रा मातॄणां ब्रहम्यादीनां यात्रो उत्सवः । मङ्गलसूत्रं (कौसुम्भं) कंकणसूत्रम् । सैकतिकः क्षेपणिके संन्यस्ते भ्रान्तिजीविनि । सिकताः प्रयोजनमस्य सैकतिकः । वाच्यलिङ्गः । क्षेपणादिः कर्करादिः । संन्यस्तस्त्यक्तसंगः । भ्रान्ति
१ शृंगालिका शिवायां स्यात्रासादपि पलायने । संघाटिका ।