________________
((२८)
अनेकार्थसंग्रहः सटीक द्वितीयो विभागः
सोमवल्कः कट्फले स्याद्वलक्षः खदिरद्रुमे । सौगन्धिको गन्धवणि सौगन्धिकन्तु कतृणे ॥ ४१ ॥ गन्धोपले पद्मरागे कल्हारेऽग्निमुखो द्विजे । read चित्रके देवेऽप्यग्निशिखं तु कुंकुमे ॥४२॥ अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके । गडूची सोमलतयोः पञ्चनखस्तु कच्छपे ||४३|| गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशंखो निधिभेदे संख्याभेदे नरास्थिनि ॥ ४४ ॥ जीवी सन्देहजीवी ॥४०॥ सोमवल्कः कट्फले स्याद्वलक्षः खदिरदुमे । सोमस्येव वल्कलमस्य सोमवल्कः । कट्फलो वृक्षः । सौगन्धिको मन्धवणिक् । सुगन्धाः पण्यमस्य सौगन्धिकः । सौगन्धिकं तु कतृणे । गन्धोपले पद्मरागे कल्हारे । सुगन्धः प्रयोजनमस्य सौगन्धिकम् । कतृणं रोहिषम् ॥ ४१ ॥ गन्धोपलो गंधकौषधम् । पद्मरागो मणिः । कल्हारमुत्पलभेदस्तत्र - यथा - सरस्तु राजहंसाभसौगन्धिकसुगन्धिषु । अथ स्वान्ताः । अग्निमुखो द्विजे । भल्लाते चित्रके देवेऽपि । अग्निर्मुखं प्रधानमास्यं वा अस्य । अग्निर्मुखे अस्मादिति वा अग्निमुखः । भल्लातक चित्र के ओषधिमेदौ । अग्निशिखं तु कुंकुमे । अग्निरिव शिखाऽस्य अग्निशिवम् ||४२ || अग्निशिखा लाङ्गलिक्याम् । लाङ्गलिको ओषधिः । इन्दुलेखेन्दुखण्डके । गहूची सोमलतयोः । इन्दोर्लेखा इन्दुलेखेव वा इन्दुलेखा । इन्दुखण्डके यथा - इन्दुलेखेव या वक्रासंध्येव क्षणरागिणी । गडूची सोमलते ओषधी । पञ्चनखस्तु कच्छपे गजे । पञ्चनखा अस्य पंचनखः । कच्छपः शशकादीनामुपलक्षणम् । यदाह - पंच पंचनखा भक्ष्या ब्रह्मक्षत्रस्य राघव | शशकः शल्यकः श्वाविद्रोघा कूर्मश्च पञ्चमः ॥ ४३ ॥ बद्धशिखो बाले । बद्धशिखाऽस्य बद्धशिखः । बालः शिशुः । बद्धशिखोच्चटौषधौ । बद्धा शिखा यया बद्धशिखा । महाशंखो निधिभेदे संख्याभेदे नरास्थिनि ।