________________
(३२६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
सुरेश्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः । वैतालिकः खेट्टताले मङ्गलपाठकेऽपि च ॥३५॥ वैनाशिकः स्यात् क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वैश्यापुत्रे च शूद्रतः ॥३६॥ शतानीको मुनौ वृद्धे शालाको बलोमुखे ।
सारमेये शृगाले च शिलाटकस्तिलाट्टयोः ॥३७॥ वस्त्रोक्तस्पष्टोक्तैर्यत्तदामुखम् । विशेषकस्तु पुण्ड्के । विशेषाधायके वापि । विशिनष्टि विशेषकः । पुण्डू के 'क्लोवः । विशेषाधायके वाच्यलिङ्गः। पुण्डके यथाविशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव । विशेषाधाय के यथा-गुणो गुणविशेषकः । वृन्दारको मनोरमे । सुरे श्रेष्ठे । प्रशस्त वृन्दमस्त्यस्य वृन्दारकः । वृन्दादारकः (७-२-११) मनोरमं मनोज्ञम् । श्रेष्ठ मुख्यम् । तयोर्वाच्यलिङ्गः ॥३४॥ सुरे यथा-वृन्दारवृन्दारकवृन्दवन्दो मन्दारमालामकरन्दबिन्दून् । शेषयोर्यथा-विद्वद्धृन्दारकैर्वन्द्या । बृहतिका स्यादूरुवस्त्रभेदयोः। बृहत्येव बृहतिका । तनुपुत्रे तिकः। ऊरुः सक्थि । वस्त्रभेदे यथा-क्षपति यो भुवनं विततां बृहदबृहतिकामिव रौचनिकी रुचम् । वैतालिकः खेहताले मङ्गलपाठकेऽपि च । विताल एव वैतालिकः । विनयादित्वादिकण् । वितालः शब्दप्रयोजनमस्येति वा । प्रयोजनमितीकण् । खेटेन क्रीडया तालः खेडतालः । मङ्गलपाठके यथा-वैतालिकाः कलगिरोऽवसरेषु पेठः ॥३५॥ वैनाशिकः स्यात् क्षणिके परायत्तोर्णनाभयोः । विनाशः प्रयोजनमस्य वैनाशिकः । क्षणिकपरायत्तयोर्वाच्यलिङ्गः । क्षणिके यथा-वैनाशिक जगदिदं निगदन्ति सन्तः । उर्णनाभो लूना। वैदेहका वाणिजके वैश्यापुत्रे च शुद्रतः । विदिह्यते घनि स्वार्थेऽणिके च वैदेहकः । वाणिजके यथागृहपति वैदेहक तापसव्यञ्जनाः प्राणिधयः । शूद्रतो वैश्यापुढे यथा-वैदहकानां कृषिगोरक्षादि कर्म ॥३६॥ शतानीको मुनौ वृद्धे । शतमनिति शतानीकः । सृणीकादित्वात्साधुः । शालावृको बलीमुखे। सारमेये शृगाले च । शालायां