________________
चतुर्थः काण्डः लेखहारे वर्तरूकः काकनीले जलावटे । वराटकः पद्मबीजकोशे रज्जो कपईके ॥३१॥ वरण्डकस्तु मातंगवेद्यां यौवनकण्टके । सम्वर्तुले च भित्तौ च विनायको गणाधिपे ॥३२॥ बुद्धे ताये गुरौ विघ्ने वितुन्नकन्तु धान्यके । झाटामलौषधौ वापि विदूषकोऽन्यनिन्दके ॥३३॥ क्रीडनीयकपात्रे च विशेषकस्तु पुण्ड्रके ।
विशेषाधायके वापि वृन्दारको मनोरमे ॥३४॥ लिखितेषु विलेखयेत् । लेखहारे । लेखयति लेख लाति वो लेखीलकः । कीचकादित्वात्साधुः । परहस्तधृतेन स्वहस्तेन यो लेख लिखति तस्मिन्नित्यर्थः ॥३०॥ वर्तरूकः काकनीले जलावटे । वर्तते वर्तरूकः । शम्बुकादित्वासाधुः । काकनीलो वृक्षभेदः । जलावटः सजलकूपः । नदीमेदेऽपि । वराटक: पद्मवीजकोशे रज्जौ कपईके । वरमटति वराटः । स्वार्थ के वराटकः । कपर्द के स्त्रीपुंसः इति दुर्गमंखौ । तत्र यथा-पुत्रादपि प्रियतमैकवराटकानाम् ॥३१॥ वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । सम्वतले च भित्तो च । वियतेः । कृ त श इत्यंडे स्वार्थे के च वरण्डकः । मातङ्गवेधां यथा-गता सुरन्तरा दन्ती वरण्डक इवाभवत् । यौवनकण्टकः कीलकाल्यो मुखरोगः । सम्बत्तुलं सम्यक् वर्तुलम् । विनायको गणाधिपे । बुद्ध ताये गुरौ विघ्ने । विनयति विनायकः । गणाधिपे यथा-न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति । विध्ने यथा-अश्रेयसि प्रवृत्तानां कापि यान्ति विनायकाः ॥३२।। बुद्धः सुगतः । तायो गरुडः । गुरुः शास्ता । वितुन्नकन्तु धान्यके । झाटामलौषधौ वापि। विद्यते ते के च वितुन्नकम् । धान्यकं कुस्तुम्बुरुः। विदूषकोऽन्यनिन्दके । क्रीडनीयकपात्रे च । विदूषयति विदूषकः । अन्यनिन्दके वाच्यलिङ्गः ॥३३॥ क्रोडनीयकपात्रे यथा-विदूषकनटीमार्फः प्रस्तुताक्षेपि भाषितम् । सूत्रधारस्य