________________
(३२२)
अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
सहकारे गणधरे राजिकाहौं गजज्वरे । कोशकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके ॥२१॥ कृपणे गन्धमृगे च स्यात्पूर्णानक मानके । पात्रे च पूर्णपात्रे च फफेरीकन्तु मार्दवे ||२२|| फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ । दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि ॥ २३॥ कालभेदे महाकाले बकेरुका बलाकिका | वातवर्जितशाखा च भ्रमरको मधुत्रते ||२४||
सृणोकादित्वात्साधुः । (उ.५०) सिताम्बुजसितच्छत्रयोर्यथा-शान्ते पितर्याहितपुण्डरोकं यं पुण्डरीकाक्षमिव श्रिताश्रोः । पुण्डरीकोऽग्निदिग्गजे । सहकारे गणधरे राजिकाहौ गजज्वरे । कोशकारान्तरे व्याघ्रे । अग्निदिग्गजे आग्नेयो (आग्नोये) दिग्गजे यथा - ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥२०॥ गणधरः श्रीऋषभनाथस्य यथा - अन्यतश्च प्रतिष्ठासुरपरेयुर्जगद्गुरुः गणत्पुण्डरीकं तं पुण्डरीकमथादिशत् । कोशकारान्तरमिक्षुभेदः । व्याघ्रे यथा - तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । पुष्फलकस्तु कीलके । कृपणे गन्धमृगे च । पुष्णाति पुष्कलकः । कीचकादित्वात्साधुः । कीलकगन्धमृगयोर्यथा-सीनि पुष्कलको हतः ||२१|| स्यात्पूर्णानकमानके । पात्रे च पूर्णपात्रे च । पूर्णमनति पूर्णानकम् । पात्रं भाजनम् । पूर्णपात्रं तुउत्सवे यद् बलाद् गृहीतं वस्त्रादि । यदाहुः । उत्सवेषु - सुहृद्भिर्यदलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् । फर्फरीकन्तु मार्दवे । पिपर्ति फर्फरीकम् । सृण। केलि (उ.५०) साधुः || २२|| फर्फरी कश्चपेटायाम् । बाहुलकत्वात्पुंस्त्वम् । बलाहकोऽम्बुदे गिरौ । दैत्ये नागे । वारिणो वाइको बलाहकः । पृषोदरादित्वात् वलति वा । बलिविलिशिलोति (उ.८१) आहकः । अम्बुदे यथा - बलाहकच्छेदविभक्तरागाम् । दैत्ये यथा - बलाहक दैत्यरिपुर्जघान । नागः काद्रवेयः । तत्र यथा - महानीलमहा कणौं धृतराष्ट्रबलाहको ।. बर्बरीकः केशविन्यास कर्मणि । काल (शाक ) भेदे महाकाले । वृणोति त्रियते वा वर्व्वरीकः कः । कृपृ । इति इके साधुः ||२३|| महाकाल : किम्पाकः । बकेरुका बलाकिका | वातावर्जितशाखा च । बलैरुवते