________________
चतुर्थः काण्डः
(३२३) गिरिक केशचूर्णे च भयानकस्तु भीषणे । व्याघ्र राहो रसे भट्टारको राज्ञि मुनो सुरे ॥२५॥ भार्याटिको मृगभेदे भार्यया च विनिजिते । मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके ॥२६॥ मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ।
माणवकः कुपुंसि स्याद्वालहारभिदोरपि ॥२७॥ बकेरुका । घञि । पृषोदशदित्वात्साधुः । भ्रमरको मधुव्रते । गिरिके चूर्णकेशे च । भ्राम्यति ऋच्छिचटोत्यरे (उ.३९७) के च भ्रमरकः । भ्रमरप्रतिकृतिर्वा ॥२४॥ गिरिको बालकीडनकाष्ठम् । तत्र यथाहेलाहत न मर कत्राममण्डलीभिः । चूर्ण के शो ललाटस्थोऽउकः। तत्र पुंक्लोवः । मधुवते स्त्रीपुंसः । तयोर्यथा-वीसन्ते वनितालताभ्रमरकैभ्राजिष्णवो जिष्णुना । भयानकस्तु भोषणे । व्याघ्र राही रसे । विभेत्यस्मादिति भयानकः । शोभो राजे श्वानकः (उ. ७१) भीषणे वाच्यलिङ्गः । तत्र यथा- तत्सौम्यं च भयानकं च शिवयोरक्यं शिवायास्तु वः। रसश्चर्वणीयतां गतः स्थायिभावः । तत्र यथा-विकृतस्वरश्रवणादि विभावं करकं पाचनुभावं शंकादिव्यभिचारि भयं भयानकः । भट्टारको राज्ञि मुनौ सुर । भज्यते भट्टारकः । कीचकादित्वात्साधुः । भट्टैरयते वा । राज्ञि यथा-- परमभट्टारक श्री कुमारपालदेवः शासनं प्रयच्छति यथा । मुनौ यथा-भट्टारकः श्री गौतमः । सुरे यथा-आम्नासीत्स्वपरिश्रमं सफलयन् श्रद्धा विशुद्धात्मने यस्मै भाष्यमहार्णवं स भगवान् श्री शेषभट्टारकः ॥२५॥ भार्याटिको मृगभेदे भार्य या च विनिजिते । भार्यामटति भार्याटिकः । कुशिकादित्वात्साधुः । मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके । मरौ बक इव सीदति मरुबकः । पुष्पभेदे यथा-यतो रुरुचिरे स्त्रोणां चैत्रमरुचकन नः । फणिज्जके यथा-नवमरुबके वर्तते पुष्प कार्यम् ॥२६॥ मयूरकस्त्वपामार्गे । मयूरस्य तुल्यो मयुरकः । तस्यतुल्येः क (७.१.१०८) इति कः । मयूरकं तु तुत्थके। तुत्थकं शिखिग्रीवम् । माणवकः कुपुंसिः स्याद् बालहारभिदोरपि । मनोरपत्यं