________________
चतुर्थः काण्डः
(३२१) वात्यायां खातके प्रश्न्यां नियामको नियन्तरि । पोतेवाहे कर्णधारे निश्चारकः समीरणे ॥१७॥ पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे । शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ॥१८॥ चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः । चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके ॥१९॥ तगरे मदनद्रौ च पुण्डरीकं सिताम्बुजे ।
सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ॥२०॥ शिरीषयोः । वात्यायां खातके प्रश्न्याम् । दल्यते दलाढकः । कीचकेति (उ.३३) साधुः। महत्तरो बृहत्तरः । तत्र वाच्यलिङ्गः। खातकं कृत्रिमभूगतः। प्रश्नी ओषधिः । एकादशस्वर्थेषु ।।१६॥ नियामको नियन्तरि। पोतवाहे कर्णधारे । नियच्छति नियामकः । नियन्तरि वाच्यलिङ्गः । पोतवाहो निया(यां)मकः । द्वयोर्यथा-चेतश्चेदनियामकं खलु चलत्युच्छ खलं पोतवत् । कर्णधारो नाविकः । निश्चारकः समीरणे । पुरीषस्य क्षये स्वैरे । निश्चरति निश्चरणं वा निश्चारकः । स्वैरे वाच्यलिङ्गः । त्रिष्वपि यथा-निश्चारकरचारकवासिवल्लभः ॥१७॥ प्रचलाको भुनङ्गमे। शरा(शरो)घाते शिखण्डे च । प्रचलमकति प्रचलाकः । शिखण्डश्चन्द्रकः । त्रिष्वपि यथा-काले बलाहकाकीर्णे केकोमिः प्रचलाकिनाम् । प्रचलाकाः पलायन्ते प्रचलाकैरिवादिताः । प्रकीर्णकं तुरङ्गमे । चामरे विस्तरे ग्रन्थभेदे। प्रकीर्यते स्म क्ते के च प्रकीर्णकम् । क्लीबे। गौडस्तु प्रकीर्णकः स्यात्तुरगे चामरग्रन्थभेदयोरिति पुंस्याह ॥१८॥ चामरे यथा-यांतोऽस्पृशन्तश्चरणैरिवावनि जवात् प्रकोणैरभितः प्रकीर्णके। पिप्पळकं पुनः। चूचुके सीवनसूत्रे । पलतेः । पृपलिभ्यां टि त्यिप् च पूर्वस्येत्य (उ.११) प्रत्यये के च । पिप्पलकम् । चूचुकं सनवृन्तम् । तत्र यथानीलपिप्पलको स्तनौ । पिण्डीतकः फणिज्जके । तगरे मदनद्रौ च । पिंड्यते पिण्डोतकः। हरु हि पिण्डिभ्य इतकः । (उ.७९)। त्रयोऽपि वनस्पतयः ॥१९॥ पुण्डरीकं सिताम्बुजे। सितच्छत्रे भेषजे च । पुगति पुण्ड्यते वा पुण्डरीकम् । १ दासेरकस्तु धीवरे दासीपुत्रे च करभे नियामको ।