________________
(३२०)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः किन्दरायामुमायां च जर्जरीकं जरत्तरे । बहुच्छिद्रेऽप्यथ जैवातकः स्याद्रजनीकरे ॥१३॥ कृशायुष्मद्वेषजेषु ततरीकं वहिनके ।। परागे त्रिवर्णकस्तु गोक्षुरेऽप्यथ त्रिवर्णकम् ॥१४॥ त्र्यूषणं त्रिफला तिक्तशाकस्तु पथसुन्दरे । वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥१५॥ दलाढकोऽरण्यतिले गैरिके नागकेसरे ।
कुन्दे महत्तरे फेने करिकर्ण्यशिरीषयोः ॥१६॥ घर्षरिका । किङ्कण्यां यथा-स्मराज्ञां घोषयन्तीव कांची घर्घरिकारवैः । चण्डालिकौषधी भिदि । किन्दरायामुमायां च । चण्डमलति चण्डालिका । चण्डालोऽस्त्यस्या वा । किन्दरा चण्डालवादित्रम् ॥१२॥ जर्जरीक जरत्तरे । बहुछिद्रऽपि । जीर्यति (जीयते) जर्जरीकम् । ऋप ह श म भ्यो दुरश्चादावितीकः । वाच्यलिङ्गः । अथ जैवातृकः स्याद्रजनौकरे । कृशायुष्मद्धेषजेषु । जीवति जीवत्यनेन वा जैवातृकः । जोवेरातृको जैव चेत्यातृकः । कृशायुष्मतोच्यिलिङ्गः । रजनीकरे यथा-प्रत्यर्थिक्षितिपालपङ्कजवनी जैवातृकक्ष्मापते ॥१३॥ आयुष्मति यथा-बालोस्तु जैवातृकः । ततरीके वहिनके । पारगे । तरति तारेकम् । क प द श इति । बहुवचनादिके साधुः । वहित्रकं प्रवहणम् । पारगः पारगामा । तत्र वाच्यलिङ्गः । त्रिवर्णकस्तु गोक्षुरे । त्रिभिरवयवैर्वर्ण्यते त्रिवर्णकः । क्लीबेत्यन्ये । अथ त्रिवर्णकम् । त्र्यूषणं त्रिफला । त्रयो वर्णका अत्र त्रिवर्णकम् ॥१॥ त्र्युषणं त्रिकटु । तिक्तशाकस्तु पथसुन्दरे। वरुणे खदिरे। तिक्तश्चासौ शाकश्च तिक्तशाकः । त्रयोऽपि वृक्षाः । दन्दशूकस्तु फणिरक्षसोः । दन्दश्यते इत्येवंशीलो दन्दशूकः । यजि जपि दंशी (५.२.९७) त्यूकः । फणिनि यथा-भयविह्वलमाशु दंदशूकैर्विवशैराविविशे स्वमेव धाम ॥१५॥ दलाढकोऽरण्यतिले गैरिके नागकेसरे । कुन्दे महत्तरे फेने करिकर्य
६