________________
चतुर्थः काण्डः
(३१९) गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥१०॥ गोकण्टको गोक्षुरके गोखुरे स्थपुटी कृते । गोकुणिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥११॥ घरिका भ्रष्टधान्ये किङ्कण्यां सरिदन्तरे ।
वादित्रस्य च दण्डेऽपि चण्डालिकौषधीभिदि ॥१२॥ ग्रीवादित्येयका (६.३.१२) कुलस्यापत्यम्बा । यैयकत्रावसमासे वेत्येयकम् । द्वयोर्य था-कौठेयकः किल भवेनिनभर्तृभक्तः । कौकुटिको दाम्भिक स्याददरेरिल्लोचने । दाम्भिकचेष्टा मिथ्याशौचादि । कुक्कुटोतामाचरति कौक्कुटिकः । कुक्कुटीशब्देन कुक्कुटोपातो वा लक्ष्यते । तेन च देशस्याल्पता । कुक्कुटीं पश्यति कोक्कुटिकः । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य युगमात्रदेशदर्शी गच्छति स एवमुच्यते । शाब्दिकदादरिकेति साधुः । वाच्यलिङ्गः । दाम्भिके यथाजङ्घालवालचरिताध्वनि साधुवृत्तलुण्टाककौक्कुटिककर्म सुधार्मिकेषु ॥९॥ गुणनिका तु शून्याङ्के नर्त्तने पाठनिश्चये । गुण्यतेऽस्या गुणनी स्वार्थे के गुणनिका । गुणनमेव वा । गुणनमस्त्यस्यां वा । अतोऽनेकस्वरादितोकः । शून्याङ्को बिन्दुः । नर्त नमिति भावे आधारे वा अनट् । तत्र यथाप्रेडद्गुणा गुणनिका गणिकाः श्रयन्ति । पाठ निश्चये यथा-हेतुः परिचयस्थैर्य वक्तुर्गुणनिकेव सा । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च । गोभिः किरणैर्जलै मेधति गोमेदकम् । काकोलं विषम् । पत्रकं गन्धद्रव्यम् । पीतरत्ने यथा-गोमेदकानां द्युतिभिः पिशंगाः ॥१०॥ गोकण्टको गोक्षुरके गोखुरे स्थपुटीकृते । गवां कण्ट को बाधकत्वात् गोकण्टकः । गोकुणिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके । गामक्षि क्वणयति गोकुणिकः । कुशकेति साधुः । गामाक्रष्टुं कर्दमात् कुणिकः पाणिविकल इव वा। केकरो वक्रदृष्टिः । पङ्कस्थगवीमुपेक्षते यस्तत्र । द्वयोवच्यिलिंगः ॥११॥ धरिका भ्रष्टधान्ये किंकण्यां सरिदन्तरे । वादित्रस्य च दण्डेऽपि । घर्घरः स्वरोऽस्त्यस्यां.