SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ (३१८) अनेकार्थसंग्रहः सटोकः :: द्वितीयो विभागः 'कर्कटकोऽहौ विल्वे च कनोनिकाऽक्षितारिका । स्याकनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥६॥ उल्के स्त्रीजिते दम्भे भीरुके निर्धनेऽपि च । कुरवकः शोणाम्लानोऽरुणा पीता च झिटिका ॥७॥ कुकवाकुस्ताम्रचूडे मयूरककलासयोः। कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥८॥ घोषकोऽथ कौलेयकः सारमेयकुलीनयोः । कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥९॥ सोऽर्जकवृक्षः । कारवेल्लकः शाकभेदः ॥५॥ कर्कटकोऽहौ बिल्वे च । कर्केः सौत्रादित्यवोत्यटे कर्कटः । तस्य तुल्यः कर्कट कः । कनीनिकाऽक्षितारिका । स्यात् कनिष्ठांगुलिरपि । कनति कनोनिका । कनेरोतकः । अक्षितारकायां यथा-किंचिल्लक्ष्यकनीनिकेव नयने नासाप्रतः स्थास्नुनी । काकरूको दिगम्बरे । उलके स्त्रीजिते दम्भे भीरुके निर्धनेऽपि च । ककते काकरूकः । शम्बूकेति साधुः । भीरुकनिर्धनयोर्वाच्यलिङ्गः । षट्स्वपि यथाकिं वात्र निन्दन्ति न काकरूकम् ॥६॥ कुरवकः शोणाम्लानोऽरुणा पीता च झिंटिका । कुत्सितो वोऽस्मात् कुरवकः । कुत्सितं रौति वा। कुरु रुटिरंटिभ्य इत्यकः । शोणाम्लानो वृक्षस्तत्र यथा-कुरुचककुचाघातकोडा सुखे न वियुज्यसे । अरुणा पोता चेति अरुणझिटिका पीतझिंटिका चेत्यर्थः ॥७॥ कृकवाकुस्ताम्रचूडे मयूरककलासयोः । कृकमव्यक्तं वक्ति कृकवाकुः । कृकस्थूराद्वचः कचेति (उ.७२८) णिडुः । पुंसि । ताम्रचूडे यथा-रुतमथ कृकवाकोस्तारमाकर्ण्य काले । कोशातकः कचे। कोशमतति कोशातकः । कोशातकी ज्योत्स्नी पटोलिका । घोषकः । गौरादित्वाङ्डीः । ज्योत्स्नी पटोलिके वल्यौ । घोकोऽपामार्गः । पटोलिकायां यथाकोशातको पुष्पगुलुंछकान्तिभिर्मुखैर्विनिद्रोज्ज्वलवाण चक्षुषः ॥८॥ अथ कौलेयकः सारमेयकुलीनयोः। कुले भवः कौलेयेकः। कुल कुक्षि
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy