________________
चतुर्थः काण्डः
(३१७) आखनिकस्त्वाखुरिव किराम्बुदरचोरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥४॥ एडमूकोऽनेडमूक इवावाक् श्रुतिके शठे ।
कटिल्लकस्तु वर्षाभ्यां पर्णासे कारवेल्लके ॥५॥ लाभे तु कर्तव्या कुशाश्मन्तकवल्लजैः । यदाह मंखः-अश्मन्तकं भवे च्चुन्यां ना वृक्षतृणभेदयोरिति । आक्षेपको व्याधिनिन्दके वातरुज्यपि। आक्षिपत्याक्षेपकः । निन्दके वाच्यलिङ्गः । वातश्चासौ रुक वातरुक् । त्रिष्वपि यथा-रुजति जनमनांसि क्षिप्रमाक्षेपकोऽयम् । आकल्पकस्तमोमोहग्रन्थावुत्काल कामुदोः । आकल्पते कलाकः । तमोमोहाभ्यां हृद्प्रन्थिस्तमोमोहग्रं थः । त्रिष्वपे यथा-आकल्पकं कल्पयते मृगाशी ॥३॥ आखनि कस्त्वाखुखि किराममुदरचीरयोः । आस्खनते कुशिकादित्त्वात्के (उ.४५) आखनिकः । किरः सुकरः । त्रिष्वपि यथा-रानन्नाखनिकाः खनन्ति नगरं शून्यं त्वदीयद्विषाम् । पराइभ्यास्वनिभ्यां डिदित्यु (उ.७४२) प्रत्यये आखुः । लाघवार्थ द्विस्वरस्याप्यत्र पाठः । एवं सर्वत्र । उन्दरे स्त्रीपुंसः । शेषयोः पुंसि । उन्दरे यथा-कृत्वाखुर्विवर स्वयं निपतितो नक्तंमुखे भोगिनः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि । उत्कलिते उत्कलिका । कीकलीतिकः । हेलोत्कण्ठयोर्यथा-उद्दामोत्कळिकां विपाण्डुररुचं प्रारब्धजम्भा क्षणात् । तरङ्गे यथा-वनावलीरुत्कलिका सहस्रप्रतिक्षणोत्कूलितशैवलाभः ॥ ४ ॥ एडमूकोऽनेडमूक इवावाश्रुतिके शठे । एडो बधिरः सचासौ मूकश्च एडमूकः। अनेडोऽपि अवकारोऽपि मूकः अनेडमूकः। वालिङ्गौ । द्वयोर्यथा-एडमूक कथमेडमूकता न व्यधायि विधिना तवाधुना । अनेडमूको वाक्श्रुति के यथा-अनेडमूका भूयासुस्ते येषांत्वयि मत्सरः । कटिल्लकस्तु वर्षाभ्यां पर्णासे कारवेल्लके । कटति कटिल्लः । भिल्लाच्छभल्लेति (उ.४६४) साधुः । के कटिल्लकः । वर्षाभूरोषधिः । पर्णा