________________
(३१६)
अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
॥अथ चतुर्थः काण्डः।। अङ्गारक उल्मकांशे महीपुत्रे कुरण्टके । अङ्गारिका त्विाकाण्डे किंशुकस्य च कोरके ॥१॥ अलिपकः पिके भृङ्गे अलमकः पद्मकेसरे । मधूके कोकिले भेके अश्मन्तकं मालुकाच्छदे ॥२॥ चुल्यां चाक्षेपको व्याधि निन्दके वातरुज्यपि ।
आकल्पकस्तमो मोहग्रन्थावुत्कलिका मुदोः ॥३॥ स्य हि वयं व्याख्यामनुब्रूमहे ॥२॥ यल्लक्ष्यं स्मृतिगोचरं समभवद् दृष्टं च शास्त्रान्तरे तःसर्व समदर्शि किन्तु कतिचिन्नो दृष्ट लक्ष्याः क्वचित् । अभ्यूह्यं स्वयमेव तेषु सुमुखैः शब्देषु लक्ष्यं बुधैर्यस्मात्सम्प्रति तुच्छ कश्मलधियां ज्ञानं कुतः सर्वतः ॥३॥ एकत्रापि कृताभिधेयविषये व्युःपत्तिरर्थान्तरे कर्तव्या स्वयमेव दर्शितदिशानिर्वेदवन्ध्यैर्बुधैः। वर्णाधक्रमवर्णनं च न कृतं तत्रापि कार्य स्वयम् यत्कृत्स्नं प्रतिपादनेन विवृतिः कामं वरीवृध्यते ॥४॥
॥अहँ।। अथ चतुर्थं चतुःस्वरकाण्डमारभ्यते ॥ तत्रादौ कान्ताः। अङ्गारक उलमुकांशे महोपुत्र कुरण्टके । अङ्गतेरग्यं गःति आरे स्वार्थे के च अङ्गारकः । त्रिष्वपि यथा-अङ्गारकं विजानीयात्तप्ताङ्गारकरो विषम् । अङ्गारिका त्विाकाण्डे किंशुकस्य च कोरके । अङ्गमियति अङ्गारिका । द्वयोर्यथा-अङ्गारिकाः पश्य पुरोपकण्ठे ॥१॥ अलिपकः पिके भृङ्गे । न लिम्पति अलिपकः । कीचकादित्वात्साधुः । द्वयोर्यथा-अलिपककुलजल्पैराजुहावेष पान्थान् । अलमकः पद्मकेसरे । मधूके कोकिले भेके । अलमत्यर्थमकति अलमकः । पद्मकेसरे मधूके च यथा-अलमलमकश्चेतो हत्तुं स्वसौरभवैभवात् । अश्मन्तकं मालुकाच्छदे । चुल्यां च । अश्नुते अश्मं तं सीमन्तेति साधुः । स्वार्थे के अश्मन्तकम् । मालुकाच्छदो वृक्षः । तत्र यथा-तोराश्मन्तकशम्विचुम्बितमुखाः ॥२॥ चुल्यां च यथा- अश्मन्तकान्तिकचलाचलकुम्भदासी । तृणेऽपि तत्र पुंसि यथा-मुश्चा