________________
तृतीयः काण्डः
(३१५) वैदेही पिप्पलीसोतारोचनासु वणिक् स्त्रियाम् । संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि ॥७६॥ सुवहस्तु सम्पगबहे सुवहा सल्लकीद्रुमे ।
रास्नाशेफालिकागोधापद्येलापर्णिकोसु च ॥७६६॥ इत्याचार्य श्रीहेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डः समाप्तः॥३॥ ७६४॥ वैदेहो पिप्पलीसीतारोचनासु वणिक स्त्रियाम् । विदेहा देवता अस्या विदेहस्यापत्यं वा वैदेही । पिप्पला कणा । सौतायां यथा-वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव । रोचना रागद्रव्यम् । वणिक स्त्रियां यथा-वैदेही न विदेह (विदेदि) हीति(?) विधवावाल्हीकपर्वपुः । संग्रहो बृहदुद्धारे ग्रहसंक्षेपयोरपि । संगृह्णाति संग्रहणं वा संग्रहः । बहतः शास्त्रादेरुद्धारः साराकर्षणं बृहदुद्धारः । तत्र यथा-क्रियते सारसंग्रहः । ग्रहः स्वाकारः । तत्र यथा-शरदि समग्रफलानां कर्तव्यः संग्रहोधिनिभिः । संक्षेपे यथा-आचष्टे विग्रहेणापि समये संग्रहेण च । संचयेऽपि मंखः । यथा-धनसंग्रहेण किं ते यदिह न भोगाय नैव दानाय ॥७६५।। सुवहस्तु सम्यग्वहे । सुष्ठु वहति सुवहः । वाच्यलिङ्गः । सम्यग्वहति यः सम्यग्वहः। यथा-सुवहो हि बलोबईः कस्य न स्यात्सुखावहः । सुवहा सल्लकोद्रुमे । रास्नाशेफालिकागोधापद्येलापर्णिकामु च। रास्नाद्याश्चतस्रोऽप्योषधयः । सर्वेषु यथा-परोपकारसद्बुद्धिरवित्तेष्वपिदृश्यते । उदीयुः कर्तुमारोग्यं सुवहा निवहायतः ॥७६६॥ इत्याचार्यश्री हेमचन्द्रविरचितायामनेकार्थकैरवाकरकौमुदीत्यमिधानायां स्वोपज्ञानेकार्थसंग्रहटोकायां त्रिस्वरकाण्डस्तृतोयः परिपूर्णः ॥३॥ श्रीहेमसूरिशिष्येण श्रीमन्महेन्द्रमूरिणा भकिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥१॥ सम्यग्ज्ञान निधिगुणेर नवधिः श्रीहेमचन्द्रप्रभोग्रन्थे व्याकृतिकौशलं विलसति क्यास्मादृशां तादृशम् । व्याख्यामः स्म तथापि तं पुनरिदं नाश्चर्यमन्तर्मनस्तस्याजसमपि स्थित