________________
तृतीयः काण्डः
(३१३) तुलासूत्रेऽश्वादिरश्मौ सुवर्णे इलि पादपे । बन्धने वन्ध्यां प्रवाहो व्यवहाराम्बुवेगयोः ॥७६१॥ प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गते। .
प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने ॥७६२॥ वितर्कः । तयोर्यथा-हेम्नो निरूहं कुरुते कलादः । बस्तेरपानस्य भेदो बस्तिमेदः वस्तिविशेषः । अथ निग्रहः । बन्धके भर्त्सने सीमिन । निगृह्णाति निग्रहणं निगृह्यते अनेन वा निग्रहः । बन्धकः आधिः । तत्र यथा-धनिकस्याधमयेन क्रियते निग्रहे गृहम् । भर्त्सने तर्जने यथा-यत्साध्य स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च यत् । तस्यांगीकरणेन वादिन इव स्यात्स्वामिनो निग्रहः । भर्सनेन दण्डोऽपि लक्ष्यते । सीमा मर्यादा । प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मौ सुवर्णे इलि पादपे । बन्धने बन्ध्यां । प्रगृह्यतेऽसावनेन प्रग्रहणं वा । प्रग्रहः । सप्तस्वर्थेषु । किरणे यथा-प्रग्रहा प्रहराजस्य तमसां निग्रहक्षमाः। भुजो बाहुः ॥७६०॥ तुलासूत्रे यथा-प्रग्रहकलया पण्यं कलयन्ति वाणिजादपरे । अश्वादिरश्मी यथा-उत्तेरुरुत्तालखुरा वं द्रुताः । श्लथीकृतप्रग्रहमर्चतां व्रजाः । सुवर्णहलिपादपः तमालवृक्षः । बन्धने यथा -प्रत्यर्थि प्रग्रहोऽक रिकारायां तेन भूभुजा । बन्ध्यां हठहत्तस्त्रियां य पा-साधयन्ति अभिमानं हि परस्त्रोहरणान्नृपाः । मानिनां तूचिता कापि न प्रग्रह कलत्रता । प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहणं प्रवहत्यनेन वा प्रवाहः। व्यवहारे यथा-लोकप्रवाह नोत्क्रामेत् न शौ.डोर्य समाचरेत् । अम्बुवेगे अम्बुस्रोतसि । यथा-प्रवाहोवारां यः पृषतलघुदृष्टः शिरसि ते ॥७६१॥ प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गते । प्रवहति प्रबहः प्रवहणं वा । गोचरसंचरेति बाहुलकात् घः । अग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । प्रगृह्यते प्रग्राहः । प्राश्मि तुलासूत्रे इति अल् विकल्पनात् घम् । तुलासूत्रे यथा-तोलयन्ति जनाः पण्यं प्राहेण गृहे गृहे । दृष्टमात्रं तु दृष्टयैव विर