________________
(३१२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
कटाहः स्यात्कूर्म पृष्टे कपरे महिषीशिशौ । तैलादि पाकपात्रे च दात्यूहः कालकण्ठके ॥७५८।। चातकेऽपि नवाहस्त्वादयतिथौ नव वासरे ॥ निय॒हो द्वारिनिर्यासे शेखरे नाग दन्तके ।७५९॥ निरूहो निश्चिते तर्के वस्ति भेदेऽथ निग्रहः ॥ .
बन्धके भर्त्सने सीम्नि प्रग्रहः किरणे भुजे ॥७६०। मवेक्ष्यविद्विषः । राढो देशविशेषः ।७५७ । कटाहः स्यात्वूर्मपृष्ठे कपरे महिपीशिशौ । तैलादिपाकपात्रे च । कटति आवृणोति कटाहः । “वृकटिशमिभ्यः आहः" (उ०५९१) ।। कूर्मपृष्ठे यथा-न्यञ्चत्कर्मकटाहकोटिविचलभूभागसंक्षा भतः । कपरे यथा-स्फुटितघटकटाहैर्दुर्गमः कूपमार्गः । महिष्याः शिशु-डिम्भो महिषीशिशुः । तैलादिपाकपात्रे त्रिलिङ्गः । तत्र यथा-अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन । मासतु दर्वी परिघट्टनेन भूतानि कालः पचतिप्रसह्य । दात्यूहः कालकण्ठके । चातकेऽपि ॥ ददाति दात्यूहः (दत्यूह)। कालकण्ठ कोजलरंकुः ॥७५८॥ चातकेबपोहकः । द्वयोर्यथा दात्यूह व्यूह केलीकलित कुह कुहारावकान्तावनान्ताः । नवाहस्त्वाद्यतिथौनववासरे।। नवं प्रथमं प्रत्यग्रं वा अहनेवाहः । “अह्न" ७-३-११६। इति ॥ अट् समासान्ताः । “अहनियंह कलहा' इति पुस्त्वं ॥ आद्यतिथिः प्रतिपत् । नवः प्रत्य प्रो वासरो नव वासरः । निर्गृहोद्वारि निर्यासे शेखरे नागदन्तके। निरेति नियूहः । “निरइण् ऊहशिति ऊहशि । “ह्विणोरप्विति व्यौ ॥४।३।१५॥ इति यत्वं । यूहिलौकिको धातुर्वा । द्वारि यथा-निर्यहपर्यंकतले निषण्णा । निर्यासः क्वाथरसः। तत्र यथा-पश्चकोलकनियूहः । शेखरो गृहादेर्बहिनिर्गतं दारु । तत्र यथा रथान्तरे यत्र गृहान्तरेषु वितर्दिनियूहविटंकनीडः । शेखरोऽवतंसः इति मंखः । यथा सरसकुसुमचित्रव्यूइनिर्युइहृद्यद्युतितरलललामाम्लानशोभोत्तमाङ्गः । नागदन्तको भित्तिनिवातकीलकः । तत्र यथा-निर्दूहकोल्लम्बिततारहारैः ॥७५९॥ निरूहो निश्चिते तर्के वस्ति भेदे ॥ निष्क्रान्तं ऊहते निरूहणं वा निरूतः। निरोहति वा । पृसोदरादित्वात् निश्चितमिति भावे कर्मणि वा तः । तर्को