________________
तृतीयः काण्डः .
(३११) अत्यूहातु नीलिकायां, भाग्रहोऽनुग्रहे ग्रहे। आसङ्गक्रमणयोश्चापि आरोहोदैर्ध्य उच्छये ॥७५६।। आरोहणे गजारोहे स्त्री कदयां मानभिद्यपि ॥
कलहो भण्डने खड्गकोशे समा राढयोः ॥७५७॥ सुरसः स्वादौ पर्णासेपि। शोभनो रसोऽस्य सुरसः । स्वादौ वाच्यलिङ्गः। तत्र यथा-एषा वृदोदरकृता सरसा रसाला । पर्णासोगुल्मभेदे-अर्जकविशेषः । पर्णा ( तत्र ) स्त्रियामित्यन्ये । अथ हान्ताः-अत्यूहश्चित्रमेखले ॥ अत्यहति अत्यूहः । चित्रमेस्खलः पक्षिविशेषः ॥७५५॥ अत्यूहा तु नीलिकायाम् ॥ अत्युह्यते अत्यहा । निलिका ओषधिः । आग्रहोऽनुग्रहे ग्रहे । आसङ्गक्रमणयोश्चापि । आग्रहणमाग्रहः । अनुग्रहः प्रसादः। ग्रहः स्वीकारः । आसङ्गः आसक्तिः । आक्रमणं आक्रान्तिः। सर्वेषु यथामृत्येषु विहिताग्रहः । आरोहो दैर्ध्य उच्छ्ये । आरोहणे गजारोहे स्त्री कट्यांमानभिदयपि ॥ आरोहत्यस्मिन् आरोहणं आगेहति वा आरोहः । दैर्घ्यमायामः । उच्छ्यउद्ध्वमानं । तत्र यथा-आरोहपरिणाहाभ्यां व्याप्तव्योमदिगन्तरः । आरोहणे यथा-आरोहमवरोहञ्च मुहुर्मुदति(मुहर्मुहरति) कुर्वती । स्वदङ्गयष्टौ मदृष्टिनिश्चलापि कपीयते । गजारोहे यथा-बाणाक्षिप्तारोहशून्यासनानां गजेत्युपलक्षणं । तेनाऽश्वारोहेऽपि यथा-आरोहमाकृष्य महाप्रयत्नं विवेश शीघ्र पर सैन्यमखः । स्त्रीकट्यां यथा-कामं कुरु वारारोहे देहिमे परिरम्भणम् । मान भित् मानविशेषः । तरोरधः स्कन्धेऽपि मंस । यथा छायावन्तो गतव्याक्ला: श्वारोहाः फलशालिनः ॥ कलहो भण्डने खङ्गकोशे समर राढयोः ॥ कल्यते कलहः । "कृपक टी (उ०५८९) त्यहः ॥ कलं हन्ति वा । कचिदिति डः । कलां जहाति वा । डेड्यापोवहुलं नाम्नीति हस्वः। पुंसि । गौड स्तु भण्डने खड्गकोोनाकलहं युद्धराढयो(राहंयो) रित्याह । भण्डनं राटिः । तत्र यथा-च्युतामिन्दोलॆखारतिकलहभग्नं च वलयं । खड्गकोशः प्रत्याकारः । समरे संग्रामे : यथा विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलह