________________
(३१०) अनेकाथसंग्रहः सटीकः द्वितायो विभागः
अविमृश्यकृतौ धाये सारसं सरसीरुहे ॥ सारसः पुष्कराख्येन्दोः सुमनाः प्राज्ञ देवयोः ॥७५४॥ जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि ॥
सुरसः स्वादौ पर्णासेऽप्यत्यूह श्चित्र मेखले ॥७५५॥ करनेत्रः शनैश्चरः । द्वयोर्यथा यस्मात्सन्तापको युच्चैः सप्तार्चिश्चर्यतेजनैः । साधीयानति शोभने । अतिबाठे ॥ अतिशयेन साधुः साधीयान् । अतिशयेन बाढो वा। "वाढान्तिकयोः साधनादौ" ७।४।३७॥ इति साधादेशः । वाच्यलिङ्गः । द्वयोर्यथा किमत्र साधोय इति प्रयत्नाद्विचार्य कार्य गुरु कार्यमाय: । साहसंतु दमे दुष्कर कर्मणि । अविमृश्य कृतौ धाट्र्ये । सहसि बले भवं साहसं । भवेऽण् । सह एव वा । प्रज्ञादित्वा दण् ७।२। १६५। दमो दण्डश्चतुर्थोपायः । तत्र यथा- दाप्यस्तूत्तम साहसं । दरकर्मणि यथा-न साहस मनारुह्य नरो मद्राणि पश्यति । अविमृश्य कुतौ यथा-न खलु न खलु मुग्धे साहसं कार्यमेतत् । धाष्ट्ये यथा-उद्यता जयिनि कामिनी मुखे ते न साहसमनुष्ठितं-पुनः । सारसं सरसीरहे । सरसि भवं सारसं । यथा-सरससारससारसमारणैर्विपिनमेतदितः सुरभीकृतं । सारसः पुष्कराख्येन्दोः ॥ सरति सारसः । सृवयिभ्यां णिदिति णिदेसः । (उ०५७०॥) पुष्कराख्यः पक्षिभेदः । तत्र यथा-दीर्घाकुर्वन् पटुमद कलं कृजितं सारसानां । इन्दौ यथा-सिंचतीव सुधासारैः सारसः सरसैः करैः। मुमनाः प्राज्ञ देवयोः ॥ जात्यां पुष्पे । शोभनं मनोऽस्य सुमनाः । सुष्टु मान्यते वा विहायस्सुमनसिति साधुः । प्राज्ञे वायलिङ्गः । देवे पुंसि । जात्यां पुष्पे च स्त्रीलिङ्गः । पुष्पेप्रायो भूम्नि च । चतुर्वपि यथा-मालती विमुख श्चैत्रोविकासीपुष्पसम्पदाम् । आश्चर्य जाति होनस्य कथंसुमनसः प्रियाः (या)। सुमेधास्तु ज्योति मत्यां विदुष्यपि । शोभना मेधाऽनयाऽस्य वा सुमेधाः । "मन्दाल्याच्च मेघायाः" इ त्यस् समासान्ताः । ज्योतिष्मती ओषधिः । तत्र स्त्रियां विदुषि वाच्यलिङ्गः। तत्र यथा-सुमेधा रण्यते नाद्ये (ट्ये)रसपीयूषविचिभः।