________________
तृतीयः काण्डः
(३०९) विलासो हावे लीलायां विहायो व्योमपक्षिणोः ॥ श्रीवासः स्यावृकधूपे कमले मधुसूदने ॥७५१॥ श्रेयसी गज पिप्पल्यामभया रास्नयोरपि । समासः समर्थनायां स्यात् संक्षेपेक पद्ययोः ॥७५२।। सप्ताचिः करनेत्रेऽग्नौ साधीयानतिशोभने ।
अतिवाठे साहसन्तु दमे दुष्करकर्मणि ॥७५३॥ दुम्बरो वृक्षभेदः । काचमाचो ओषधिः ।। वाहसोऽजगरे वारिनिर्याणमुनिषण्णयोः ॥ वहति वाहसः । "वहियुभ्यां वेति णिदसः' (उ० ५७१) वाह गति (राति) स्यति वा । वारिनिर्याणं वारिप्रवाहः । सुनिषण्णे वाच्यलिङ्गः । तत्र अजगरे च यथा-निरुत्साहेशयालौचवाहसे साहसं कुतः ।।७५०॥ विलासो हावे लीलायां । विलसत्यनेन विलसनम्बा विलासः । हावो लोला च स्त्रीणां चेष्टाविशेषो । यद्भरतः । हावः शृङ्गार भावाप्तौरम्पोक्कस्मितवीक्षितम् प्रियस्यानुकृत लीला श्लिष्टा वारवेष चेष्टितैः । द्वयोर्यथा-विलासेन हि कामिन्यो मोहयन्ति मुनोनपि । विहायो व्योम पक्षिणोः । विजहाति विजिहीते वा विहा. याः । “विहायः सुमनसिति (उ०९७६) साधुः । व्योम्नि पुंक्ली बः ।। पक्षिणि पुसि । द्वयोर्यथा-क्षणाद्विमानेन ययौ विहायसा विहायसामोश इवामितद्युतिः । तुल्यां च कीलेन तना (दा) विहायसा-विहायसा तच्छुचमाश्रयद्वनं । श्रीवासः स्यावृकधृपे कमले मधुसूदने ॥ श्रियोवासः श्रीवासः । वृकधूपो धूप विशेषः। त्रिष्वपि यथा श्रीवासो वासवस्यापि वल्लभः किं पुनर्नृणाम् ॥७५१॥ श्रेयसी गज पिप्पल्यामभया रास्नयोरपि ॥ अतिशयेन प्रशस्या श्रेयसी । "गुणांगाद्वेष्ठेयसू ७।३।९॥ इति-ईयसो । "प्रशस्यस्य श्रः" ७४-३१॥ इति श्रादेशः । तिस्त्रोप्योबधयः। समासः समर्थनायां स्यात् संक्षेपक पदययोः। समसन समस्यन्ते पदान्यत्र वा समासः। समर्थना समाप्तिः । तत्रयथा-शास्त्र समासेऽपि मंगलं कार्य । संक्षेपे यथा प्रोढिास समासौ च साभिप्रायत्वमेव च । ऐकपा पदानामेकार्थीभावः । तत्र यथा-चार्थेद्वन्द्वः समासो हि सहोक्काविष्यते. बुधैः ॥७५१॥ सप्ताचिः क्रूरनेत्रेऽग्नौ । सप्त अषिोऽस्य सप्तार्चिः । पुंसि ।