________________
(३०८) अनेकार्थसंग्रहः सटोकः :: द्वितीयो विभागः
तृष्णातिरेक औत्सुक्ये वरीयान् श्रेष्ठ योगयोः ॥ . अति यून्यति विस्तीर्णे वायसः स्त्वगरौं द्विके ।७४९।। श्रीवासे वायसी काकोदुम्बरी काचमाच्यपि ॥
वाहसोऽजगरे वारिनिर्याणसुनिषण्णयोः ॥७५०॥ तद्भवादिष्वपि मङ्खः तत्र वाच्यलिङ्गः । तत्र यथा-राक्षसीमकृतरक्षितप्रजस्तेबसाधिकबिभीषणां पुरीं । रोद इव तु रोदसी। दिवि भुन्युभयोश्चापि । रुदन्त्यत्ररोदः । “असित्यस्" । स्त्रीक्लीबः । “गौरादित्वात्" स्त्रियांङ्यां रोदसी। त्रिष्वपि यथा-रोदः कुक्षिम्भरिध्वानैर्दध्वने विजयानकैः । खः श्रवणभैरवः स्थगितरोदसी कन्दरः कुतोदयसमरोदधेरयमभूदपूर्वः पुरः । रोदसीत्यव्ययमपि । लालसो लोलयाञ्चयोः ॥ तृष्णातिरेक औत्सुक्ये ॥ लालप्तीति लालसनं वा लालसः ॥ चतुष्वर्थेषु । लोले वाच्यलिङ्गः । शेषेषु स्त्री पुंसः। लोले यथा-छायां निजस्त्री चटु लालसानां मदेन किंचिच्चटु लालसानां । याञ्चायां तृष्णातिरेके औत्सुक्ये च यथा - सागताद्यविषयेषु लालसा वर्तते त्वाय तुदेव (सदैव) लालसा । बुद्धिरस्ति तव चञ्चलालसा प्राप्त सार पर वित्कलालसा । अत्र प्रथमो याश्चायां तृष्णातिरेके च । द्वितीयस्त्वौत्सुक्ये । ७४८। वरीयान् श्रेष्ठ योगयोः । अतियून्यात विस्तीर्णे ॥ अतिशयेन वरो वरीयान् । अतिशयेन उरुर्वा । "ईयसिप्रिय स्थरेति" वरादेशः । य गे पुंसि । अन्यत्र वाच्यलिङ्गः । श्रेष्ठे अतियुनि च यथा 'अस्मिन् स्वयंवरेदेवि । वरीयांसं वरं वृणु । योगे यथा-वरीय न् परिघः शिवः । अतिविस्तीर्णे यथा-उर्वी मही वारिततो वरीयो वरिष्ठमाकाशमातोपितत्त्वं । वायसस्त्वगरौ द्विके । श्रीवासे । वयते वायसः । "सृवयिभ्यां णिदित्यसः" ।। '(उ०५७०) वय एव वा। "प्रज्ञादित्वादण्" ७।२।१६५॥ श्रीवास वाचि प यस शब्दस्य वा 'जपादित्वात्" ॥ २॥३॥१०५ वत्वं ॥ अगरुः काकतुण्डः । श्रीवासः सरलद्रवः । तयोर्यथा-वायसः कायसौगन्ध्यं विधत्ते धनिनां क्षणात् । दिके काके यथा-वायस नय नमिवास्तेशंकितमनिशं दुरात्मनां चेतः ७४९।वायसी काकोदुम्बरी काचमाच्यपि । वयसः (वायसः) पक्षिणः, इयं वायसी । काको