SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्ड हृष्टे पायसः श्रीवासे पायसं परमान्नके || वीभत्सो विकृते क्ररे रसे पायें घृणात्मनि ॥ ७४६॥ बुक्कसी कालिका नील्योः बुकसो श्वपचेऽधमें || मानसं स्वान्त सरसोः रभसो वेगहर्षयोः ॥ ७४७॥ राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी || दिवि भुव्युभयोश्चापि लालसो लोलयाञ्चयौः ॥७४८ ॥ (३०७) - पायसो द्रुमक्षीरस्य विकारः स्रुतिः पायसः । श्रीवासः सरद्रवः । पायसं परमान्न के । पयसि संस्कृतं पायसम् । "संस्कृते भक्ष्ये" ( ६-२-१४० ) इत्यण् । पुंक्लबः यथा - पायसं वायसेभ्योऽपि दीयते शकुनार्थिना । बीभत्सो विकृते क्रूरे रसे पायें घृणात्मनि ॥ बीभत्सते बीभत्स्यते वा बीभत्सः । रसे पार्थे च पुंसि । शेषेषु वाच्यलिङ्गः । विकृते यथा - बीभत्सोऽस्थिभिरुत्फणा च भयकृन्मूर्याद्भुततुंगया । करे यथा-कथं वा बीमसं चरतमिदमार्येण विहितम् । रसे पार्थे च यथा - बीभत्सोऽप्यतिवीरः पार्थोऽपार्थप्रवृत्तिः स्यात् । घृणात्मा = जुगुप्सात्मकः । तत्र यथा - बीभत्सः कच्छ देशो य मच्छभलशतैर्भृतः ॥ ७४६ || बुक्कसी कालिका नील्योः । बुक्कयते बुकसो । " फनसतामरसादय " ( उ०५७३ ) इति साधुः । बुक्कास्यते वा । कालिका योगिनी । नीली ओषधिः । gaar: वपचेऽधमे । अधमे वाच्यलिङ्गः द्वयोर्यथा भवन्ति बुक्कसा एव ब्रह्मस्त्री-भ्रूणघातकाः । मानसं स्वान्तसरसोः । मन एव मानसम् । “ प्रज्ञादित्वात् ” (७-२-१६५) अणु । मानंस्यति वा । द्वयोर्यथा - निरस्तगाम्भी-मस्त पुष्पकः प्रकम्पयामास न मानसं न सः । रभसो वेग हर्षयोः । रभन्तेऽनेन रभसः । " दिवादि रभीति किदसः " ( उ०५७२) स्त्री पुंसः । वेगो, 46 हस्त्वरा वा । रंहसि यथा - समिती रभसादुपागतं - सगदः सम्प्रतिपत्तु - मर्हसि । त्वरायां यथा - अतिरभसकृतानां कर्मणामा विपत्तेर्भवति हृदयदाडी शल्य तुल्यो विपाकः । हर्षे यथा - भालिङ्गितः सरभ सन्तरलायिताक्ष्या । ७४७॥ राक्षसी कौणपी दंष्ट्रा । रक्षस इयं राक्षसी । रक्ष एव वा । "प्रज्ञादित्वात् " । (७-२-१६५) अण् । द्वयोर्यथा दुःखाकरोति नो केषामुद्गच्छन्तीह राक्षसी ॥
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy