________________
-
(३०६) अनेकार्थसंग्रहः सटीकः द्वितीयो विभागः
चातक स्त्रिदश्चापि दीर्घायुजीवके द्विके ॥ मार्कण्डे शाल्मलि तरौ नभसस्तु नदीपतौ ॥७४४॥ गगने ऋतु भेदे च पनसः कपिरुग् भिदोः ।।
कण्टके कण्टकि फले प्रचेतो वरुणे मुनौ ॥७४५॥ जाहव्यां यथा-अङ्गुष्ठ निष्ठ्यूतमिवोर्दध्वमुच्चैस्त्रिस्त्रोतसः सन्तत धारमम्मः । सिन्धुभित् नदीविशेषः । तत्र यथा-तिस्त्रस्त्रिस्त्रोतसस्तीरे संक्रीडन्ते मृगी दृशः। अथ दिवौकसौ । चातकस्त्रिदशश्चापि ॥ दिवि ओकोऽस्य दिवौकाः । 'पृषो. दरादित्वात्" अकारागमः । वृत्तिविषये अकारान्तो वा दिव शब्दः ।७४३॥ चातके यथा-क्रियते नीरदैरेव वितृष्णत्वं दिवौकमाम् । त्रिदशे यथा-तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । दीर्घायुजीवके द्विके । मार्कण्डे शाल्मलि तरौ । दिर्घमायुरस्य दीर्घायुः । जीवको दीर्घजीवी । तत्र वाच्यलिङ्गः । तत्र यथा-दीर्घायुभेजतेऽन्ध यष्टिपदवीं श्रीनाचिराजः-कविः । द्विकः काकः । मार्कण्ड ऋषिः ॥ नभसस्तुनदीपतौ । गगने ऋतु भेदे च । णभच् हिंसायां, नभ्यति नभसः । "तप्यणि" (उ०५६९) ॥ इत्य सः नदीपतिः समुद्रः ।। ७४४।। गगने यथा- वृक्षा ध्वनन्ति नभसंगम संगमेन । अत्र हि नभसे गमनेन गच्छन्ति नभसङ्गमा पक्षिणः । ऋतुभेदः प्रावृट् । पनसः कपिरुग्मिदोः ॥ कण्टके कण्टकि फले ॥ पन्यतेऽनेन पनसः । "तप्यणि" (उ०५६९) इत्यसः । कपिभेदः कपि विशेषः ग्भेदः रोगविशेषः । कण्टक स्तीक्ष्णाग्रो वृक्षावयवः रोमाञ्चो वा कण्टकिकलो वृक्षविशेषः तत्र 'क्लोवः । तत्र यथा सरसपनसप्रायैर्वृत्तिः। सुखोपन्तैः फलैः । प्रचेता वरुणे मुनौ । हृष्टे । प्रकृष्ट प्रसन्नं प्रहृष्टं वा चेतोऽस्य प्रचेताः । हृष्टे वाच्यलिङ्गःवरुणे यथा किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मुनौ यथा प्राचेतसे न जगदे रघुवीर वृत्तम् । अत्र हि-प्रचेतसो मुनेरपत्यं प्राचेतसो वाल्मीकिः । ७४४॥ हृष्टे यथा-प्रचेता. वल्लभे दृष्टे को हि न स्यात्सचेतनः । पायसः श्रीवासे।